४७, ४८, ४९ श्लोकाश्च समीक्षितव्याः ॥ १३ ॥
अयमेवार्थो वसिष्ठेन रामायोपदिष्ट इति तद्वाक्यार्थं पठति, वसिष्ठेति ।
…. …. वसिष्ठश्च तथाऽब्रवीत् । |
यथा वेदवचः प्राह तथा । वसिष्ठोऽब्रवीत् । तत्प्रकारमाह, सर्वेति । परं ब्रह्म सर्वशक्ति सोपाधिकत्वेन सर्वशक्तिमत् । परमार्थतो नित्यं निर्विकारं आपूर्णम् आसमंतात् व्याप्तं अत एवाद्वयम् । तत् परं ब्रह्म यया मायाशक्त्या उल्लसति विशेषाकारेणावभासते तथाऽसौ शक्तिः प्रकाशं अभिव्यक्तिं आधिगच्छत्याप्नोति ॥१४॥
मायाशक्तेरभिव्यक्तिप्रकारं सार्थद्वाभ्यां विपुलीकरोति, चिदिति ।
चिच्छक्तिर्बह्मणो राम ! शरीरेषुपलभ्यते ॥१५॥ |
हे राम ! विश्वनामधीश्वर; ‘राशब्दो विश्ववचनो मश्चापीश्वरवाचकः । विधानामीश्वरो यो हि तेन रामः प्रकीर्तितः” स्पष्टमन्यत् । एवं सर्ववस्तुषु काचन नियता शक्तिर्दश्यते; एवं विधाः शक्तयः तत्कार्यभूतं जगश्च अंडे अंतः महासपों यथा तथा आत्मनि संति निगूढमिति भावः असत्कार्यवादनिरासार्थमयं दृष्टान्तः ॥ १७ ॥
विचित्रस्यापि जगतः सत्वबोधनार्थं दृष्टान्तमाह, फलेति ।