अद्य सांख्यानामभिमतं परिणामवादं प्रतिपादयति, अवस्थेति
अवस्थान्तरतापत्तिरेकस्य परिणामिता । |
एकस्य वस्तुनः अवस्थान्तरतापत्तिः अन्यावस्थायाः प्राप्तिः परिणामितेति सांख्यैरुच्यते । तत्रोदाहरणमाह,स्यादिति । क्षीरं दधि स्यात् । क्षीररूपं विहाय दधिरूपेण परिणमते, तथा मृत् कुंभो भवति । सुवर्णम् कुंडलं भवति । मृत्सुवर्णयोः कुंभकुंडलावस्थायां मृत्सुवर्णयोः प्रतीयमानत्वेऽपि मृत्सुवर्णव्यवहारपरित्यागे कुंभकुंडलरूपेण व्यवहारात् परिणाम इत्युक्तं । अवस्थान्तरतापत्तित्वं परिणामित्वमिति सामान्योऽयं लक्षणस्वरूपः । ५१ श्लोके निष्कृष्टस्वरूपस्तूदाहृतः ॥ ८॥
अथ विवर्तलक्षणं विवृणोति, अवस्थेति ।
अवस्थान्तरभानं तु विवर्तो रज्जुसर्पवत् । |
कारणस्य स्वयं किमपि विकरमनापद्य पूर्वावस्थामपरिहाय अवस्थान्तरभानं अन्यावस्थायामवमानं प्रतीतिः विवर्तो भवति । विशेषेण वर्तनं भानं विवर्तः । पूर्वरूपपरित्यागे सति अवस्थान्तरावभानत्वं विवर्तस्य लक्षणम् । तु शब्दः पूर्वपक्षवैलक्षण्यद्योतनार्थः । अवस्थान्तरतापत्तिः परिणामः यथा क्षीरं दधिरूपेण । वस्त्वंतरोत्पत्तिजनक आरंभः यथा तंतोः पटः । अवस्थान्तरभानमात्रमेव विवर्त इति बोद्धव्यम् । तत्रोदाहरणमाह, रज्विति । रज्जुसर्पवत् । यथा रज्जुः स्वयं विकारमनापन्ना सर्प इव विशेषाकारेणावभासते । रज्ज्वभावे सर्पस्यानवभासनात् सर्पस्य रज्जुः कारणं भवति । नन्वारंभादिवद्विवर्तोऽपि निरंशे न संभवतीत्याशंक्य तस्य निरंशेऽपि संभवं दृष्टान्तमुखेन विशदयति निरंश इति । असौ विवर्तः निरंशेऽपि निरवयवेऽपि व्योम्नि तलमालिन्यकल्पनात् तत्स्वरूपानभिज्ञै: तलत्वं अधोमुखेंद्रनीलकटाहतुल्यत्वं मालिन्यं नीलवर्णत्वं तयोः कल्पनात् आरोपणात् तस्य लोकैरनुभूयमानत्वादित्यर्थः । अस्ति विद्यते । अतो नास्त्यसंभव इति भावः ॥९॥
एवं च जगदुत्पत्तेरानन्दस्य विवर्तत्वं सिद्ध्यतीत्याह,तत इति ।