पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५१९
कल्याणपीयूषव्याख्यासमेता

नोपादानं कारणमित्यर्थः । तर्हि तौ कुत्र दृष्टवित्यत आह, दृष्टाविति । तौ। घटस्य सृष्टिलयौ मृदि दृष्टैौ प्रत्यक्षत उपलब्धौ। अतो घटस्योपादानं मृद्भवति । प्रकृते योजयति, तद्वदिति । तद्वत् “आनंदाध्येव खल्विमानि भूतानि जायन्ते" (. ३-६) इत्यादिश्रुतेः तयोर्जगतः स्थितिलययोरानन्दे अवगमात् आनन्द उपादानकारणं स्यात् ॥ ५॥

उपादानस्य त्रैविध्यववरणम्

 आनन्दस्य जगदुपादानकारणत्वेऽपि विप्रतिपत्तिमाशंक्य परिहाराय तत्रिधा विभजति, उपादानमिति ।

उपादानं त्रिधा भिन्नं विवर्ति परिणामि च ।
आरंभकं च तत्रन्त्यौ न निरंशेऽवकाशिनौ ॥ ६ ॥

 विवर्त परिणामि आरंभकं चेत्युपादानं त्रिधा भिन्नं तत्र त्रिषु भेदेषु अन्त्यौ परिणाम्यारंभकपक्षौ निरंशे परे ब्रह्मणि सावकाशिनौ । जगतः परं ब्रह्म परिणाम्यारंभककारणं न भवतीत्यर्थः ॥ ६॥

 तयोरनवकाशप्रदिर्शयिषया आदौ नैयायिकानामभिमतमारंभवादनुपपादयति, आरंभेति ।

आरंभवादिनोऽन्यस्मादन्यस्योत्पत्तिमूचिरे ।
तन्तोः पटस्य निष्पत्तेर्भिन्नौ तन्तुपटौ खलु ॥ ७ ॥

 अन्यस्मात् कारणात् कार्यापेक्षया भिन्नात् समवायकारणात् अन्यस्य कारणापेक्षया भिन्नस्य कार्यस्य उत्पत्तिं जन्म आरंभवादिन ऊचिरे । कारणाद्भिन्नं कार्यं आरभ्यत इति नैयायिकादयो मन्यन्ते । तत्र कारणमाह, तन्तोरिति । तन्तोः पटस्य निष्पत्तेः उत्पत्तेः उपलंभादिति शेषः । उत्पत्तेराद्यक्षणसंबन्धरूपतया पूर्वक्षणे कार्यस्य कारणाभिन्नत्वे पूर्वक्षणेऽपि कार्यसंबन्धस्य सत्त्वे नाद्यक्षणसंबन्धरूपोत्पतिः स्यादिति भावः । एवं सिद्धं भेदं लोकानुभवसिद्ध्या दर्शयति, भिन्नाविति । तन्तुपटौ कारणोभूतस्तन्तुः कार्यभूतः पटः उभौ भिन्नौ खल्विति प्रसिद्धौ। विरुद्धं परिमाणवत्त्वे विरुद्धार्थक्रियाकारित्वे न च सर्वैरनुभूयत इति भावः ।। ७ ॥