पंचकोशेषु अन्नमयादिषु भेदः अस्ति । तथापि साक्षिणस्सकाशाद्विद्यमानोऽप्यसौ भेदः न भाति । अतः यथा स्थाणोः चोराद्भिन्नस्य चैौरात्मता मिथ्या तथैव कोशानां मिथ्यात्मता ॥४१॥
अथ साक्षिणो मुख्यात्मत्वं विशदयति, नेति ।
न भाति भेदो नाप्यस्ति साक्षिणोऽप्रतियोगिनः । |
अप्रतियोगिनः प्रतियोगिरहितस्य साक्षिणः प्रत्यगात्मनः भेदो न भाति । न प्रतीयते । अप्रतियोगिनस्तस्य नाप्यभेदोऽस्ति । साक्षिभिन्नस्य तु मिथ्यात्वात् मिथ्याभूतस्य प्रतियोगित्वासंभवेन साक्षिणः प्रतियोगी नास्तीत्यर्थः । ननु माऽस्तु भेदः । तथापि मुख्यत्वं कथमुच्यत इत्यत आह, सर्वेति । सर्वान्तरस्त्वात् सर्वान्त रत्वेन प्रतीयमानत्वात्तस्यैव साक्षिणो मुख्यमात्मत्वमिष्यते ॥ ४२ ॥
एवं साक्षिणो मुख्यात्मत्वं प्रतिपाद्य विविधात्मनामपि मध्ये यद्यद्व्यवहारेषु यस्य यस्योपयोगस्तत्तद्व्यवहार्येषु तस्य तस्य प्राधान्यमित्याह, सतीति ।
सत्येवं व्यवहारेषु येषु यस्यात्मतोचिता । |
एवमात्मनः येषु व्यवहारेषु पूर्वोक्तात्मनां मध्ये यस्य आत्मता प्रकरणो चितात्मता तेषु तेषु व्यवहारेषु तस्यैव शेषित्वं प्राधान्यं तद्यतिरिक्तस्यान्यस्य सर्वस्य शेषता अप्राधान्यं । एवं लोकव्यवहारेषु शेषशेषिभाव आपेक्षिक इति भावः ॥ ४३ ॥
गौणात्मनश्शेषित्वप्रयोजकव्यवहारं दर्शयति, मुमूर्षोरिति ।
मुमूर्षोर्गृहरक्षादौ गौणानेवोपयुज्यते । |
मुमूर्षोर्गृहरक्षादौ गौणात्मैव पुत्रकलत्रादिरेवोपयुज्यते । तत्र मुख्यात्मा साक्षी मिथ्यात्मा वेदादिश्च नोपयुज्यते । अतः तत्रोपयोगानुसारात् पुत्र: शेषी