पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५००
[ब्रह्मानंदे आत्मानंद
पञ्चदशी

 लौकिकानुभवं प्रदर्शयति, स्वस्मिन्निति ।

स्वस्मिन् मृतेऽपि पुत्रादिर्जीवेद्वित्तादिना यथा।
तथैव यत्नं कुरुते मुख्याः पुत्रादयस्ततः ।। ३८ ।।

 स्पष्टोऽर्थः । तत्ः पुत्रादयः पुत्रकलत्रादयो मुख्याः ॥ ३८ ॥

 उक्तभंगीकृत्य समाधत्ते, बाढमिति ।

बांढमेतावता नत्मा शेषो भवति कस्यचित् ।

 बाढं भवदुक्तरीत्या पुत्रादीनां प्राधान्यमस्तु । एतावता क्वचित्प्राधान्य- सिध्या आत्मा कस्यचित् पुत्रादेः शेषो न भवति । । तदपेक्षया अमुख्यो न भवति । ततस्तेषां मुख्यात्मत्वं न सिध्यतीति भावः ।

गौणमुख्यमिथ्यात्मविचारः।

 तेषाममुख्यात्मत्वं विशदयितुमात्मनस्त्रैविध्यं दर्शयति, गौणेति ।

गौणमिथ्यामुख्यभेदैरात्माऽयं भवति त्रिधा ॥ ३९ ॥

 स्पष्टोऽर्थः ॥ ३९॥

 पुत्रादेर्गौणात्मत्वप्रदर्शनाय लोके गौणप्रयोगमुदाहरति, देवदत्त इति ।

देवदत्तस्तु सिंहोऽयमित्यैक्यं गौणमेतयोः ।
भेदस्य भासमानत्वात्पुत्रादेरात्मता तथा ॥ ४० ॥

 अयं देवदत्त: सिंह इति । प्रत्यक्षेण भिन्नतया प्रतीयमानयोर्गुणसाम्येन ऐक्यं गौणमेव गुणसाम्यजन्यमेव । कुतः ? एतयोर्भेदस्य भासमानत्वात् । तथा पुत्रादेरात्मता गौणात्मत्वमेव भवतीत्यर्थः ॥४०॥

 अथ मिथ्यात्मानं दर्शयति, भेद इति ।

भेदोऽस्ति पंचकोशेषु साक्षिणो न तु भात्यसौ ।
मिथ्यात्मताऽत; कोशानां स्थाणोश्चौरात्मा यथा ॥४१॥