सौषुप्तिकमुखं ब्रह्मानन्द एव ।
चित्प्रकाशस्वरूपं सौषुप्तिकसुखं ब्रह्मानन्दः स्वयं भवेदित्यत्र तस्य ब्रह्म- रूपत्वसंभवे श्रुतिः प्रमाणमित्याह,ब्रह्मेति ।
ब्रह्मविज्ञानमानन्दमिति वाजसनेयिनः । |
"तेनैक्यं प्राप्य तत्रत्यो ब्रह्मानन्दः स्वयंभवे "दित्युक्तं (११. ४५) ब्रह्म विज्ञानमानन्दमिति विज्ञानानंदस्वरूपमिति वाजसनेयिनः, वाजसनेः सूर्यस्य छात्रो वाजसनेयो याज्ञवल्क्यः, तेन प्रोक्तमधीयत इति तथोक्ताः शुक्लयजुर्वेदशाखा- न्तर्गतबृहदारण्यकश्रुत्यनुयायिनः । "विज्ञानमानंदं ब्रह्मे"ति (बृ.३.९.२८) पठन्ति । अतः स्वप्रकाशं सुखमानंदो ब्रह्मैव इतरन्न ॥ ६१॥
सुषुप्तावानन्दमयस्य ब्रह्मानन्दानुभवकथनम् ।
ननु सुखमस्वाप्सं न किंचिदवेदिषमिति स्मृतिः जीवस्यैव । तथाचानुभविताऽपि स एवेत्यवश्यमभ्युपेयम् । स्मृत्यनुभवयोस्सामानाधिकरण्यानिय- मादन्यानुभूतस्यान्यस्मरणाविषयत्वादित्याशंकते, यदिति ।
यदज्ञानं तत्र लीनौ तौ विज्ञानमनोमयौ । |
यत्सुषुप्तावनुभूयमानमज्ञानं तत्र तस्मिन्नज्ञाने प्रमातृप्रमाणस्वरूपभूतौ तौ विज्ञानमनोमयौ कोशौ लीनौ विलयं गतौ। तदाकारं विहाय कारणरूपं गतावित्यर्थः । जीवत्वव्यवहारभूतस्य कोशद्वयस्याभावे जीवत्वाभावात् । साम्राज्याभावे साम्राट्वाभावो यथा । तथा च सामानाधिकरण्यं कथं घटत इत्याह, तयोरिति । तयोर्विज्ञानमनोमययोर्विलयावस्थैव निद्रेत्युच्यते । “विज्ञानविरतिस्सुप्ति "रित्युक्तेः । सैव निद्राऽज्ञानं च भवति । विज्ञानमनोमययोर्विलयात्मिकाया निद्रयाः स्वरूपमेवाज्ञानमिति हेतोः निद्रायां जीवभावाभावान्न जीवस्य सुखाज्ञानानुभव इति भावः ॥ ६२॥
समाधते, विलीनेति ।