कल्पितजीवलोके । सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेती"ति कैवल्यश्रुत्या (१.१३.) स्पष्टयति, सुषुप्तीति ।
सुषुप्तिकाले सकले विलीने तमसाऽऽवृतः। |
सुषुप्तिकाले सकले जाग्रत्स्वप्नात्मके स्वमायया कल्पितजीवलोके स्वोपादानभूतायां तमःप्रधानायां प्रकृतौ विलीने सति तमसा प्रकृत्याऽऽवृत आच्छादितो जीवः सुखरूपमानन्दस्वरूपमुपैति । सुखरूपो भवतीत्यर्थः । इत्येवमाधर्वणी कैवल्यश्रुतिर्ब्रूते ॥ ५८ ॥
अस्यार्थस्य सर्वानुभवसिद्धत्वं दर्शयति, सुखमिति ।
सुखमस्वाप्समत्राहं न वै किंचिदवेदिषम् । |
सुषुप्तेत्थितः पुरुषः “सुखमहमस्वाप्सं, न वै किंचिदवेदिष"मिति सुप्ते सुषुप्तौ वर्तमाने सुखाज्ञाने सुखमज्ञानं च परामृशति स्मरति ॥ ५९ ॥
स्मृतेरनुभवमूलत्वात्तन्मूलभूतोऽनुभवः सुषुप्तावंगीकार्य इत्याह,परेति ।
परामर्शोऽनुभूतेऽस्तीत्यासीदनुभवस्तदा । |
परामर्शः स्पृतिरनुभूतेऽनुभूतविषयेऽस्ति नान्यत्रेति हेतोस्तदा सुषुप्ति समयेऽनुभव आसीदिति सिध्यति । ननु सुषुप्तौ सर्वेन्द्रियाणां मनसा सह विलये कथमनुभवसिद्धिः स्यादिति चेत् किं सुखानुभवसाधनाभावात्सा न स्यादुताज्ञानानुभवसाधनाभावात्, नाद्यः । साक्षिणस्स्वतश्चिदात्मत्वात् स्वप्रकाशसुखस्वरूपत्वात् सुख स्वतो भाति । न तत्र साधनापेक्षा । न द्वितीयः । स्वप्रकाश स्वरूपस्य सुखस्य तत्साधनत्वादित्याह, अज्ञानेति । ततश्वितेरज्ञानधीरज्ञानाननुभूय: सुखस्वरूपं सद्वस्तु। सुखम् च स्वयंप्रकाशचिदात्मकम् । अतो न तस्य साधनापेक्षा। तस्य बलादज्ञानमपि प्रतीयत इत्यतो न द्वितीयस्यापि साधनापेक्षेति भावः ॥ ६०॥