पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६०
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 निद्रासुखे शय्यादिजसुखवैलक्षण्यं दर्शयति, निद्रायामिति ।

निद्रायां तु सुखं यत्तज्जन्यते केन हेतुना ।
सुखभिमुखधीरादौ पश्चान्मज्जेत्परे सुखे ॥ ४२ ॥

 निद्रायां तु युत्सुखम् विद्यते तत्केन हेतुना जन्यते तत्र शय्यादीनां ज्ञानाभावान्न तत्कारणमित्याशयः । तर्हि निद्रासुखम् वैषयिकसुखभिव किं नानुभूयत इत्याशंक्याहसुखेति । आदौ निद्रायाः प्राक् जीवः सुखाभिमुखधीस्सुखेच्छासंपन्नो भवति । पश्चान्निद्रासमये पर उत्कृष्टे सुखे मज्जेद्विलीनो भवेत् । तदानीं स्वरूपेऽनुभवितुर्जीवस्यानुभवरूपाया धीवृत्तेरनुभाव्यस्य सुखस्य च विलीनतया त्रिपुट्यभावानिद्रासुखं वैषयिकसुखमिव नानुभूयत इति भावः ।।४२॥

 एतदर्थमेव त्रिभिर्विपुलीकुर्वाण आदौ शय्यासुखप्रकारमाह, जाग्रदिति ।

जाग्रद्व्यापृतिभिः श्रान्तो विश्रम्याथ विरोधिनि ।
अपनीते स्वस्थचित्तोऽनुभवेद्विषये सुखम् ॥ ४३॥

 जीवो जाग्रद्व्यापृतिभिर्जाग्रति या व्यापृतयो व्यापारा विद्यन्ते ताभिश्शान्तस्तन्निवारणार्थं मृदुलतल्पोपरि विश्रम्य अध अनन्तरं विश्रमविरोधिनि व्यापारश्रमेऽपनीते सति स्वस्थचित्तस्स्वस्मिन् तिष्ठतीति स्वस्थं निर्व्यापारं तादृक्चित्तम् यस्य तथाभूत:, अव्याकुलचित्तो भूत्वेत्यर्थः। विषये शय्यादौ सुखमनुभवेत् व्यापारश्रमापनोदननिमित्तमात्रमेव सुख शय्यायामनुभवतीति भावः ॥ ४३ ॥

 शय्यासुखस्य त्रिपुटीप्रयुक्तत्वात्तत्रापि श्रमकारणत्वं प्रदर्शयति, आत्मेति।

आत्माभिमुखधीवृत्तौ स्वानन्दः प्रतिबिंबति ।
अनुभूयैनमत्रापि त्रिपुट्या श्रान्तिमाप्नुयात् ॥ ४४ ॥

 आत्माभिमुखधीवृत्तौ जाग्रद्व्यापारविरामहेतोः शय्यागतस्यात्मनोऽभिमुखीभूता या, सुखस्वरूपा धीवृत्तिस्तस्यां स्वानन्दः स्वस्वरूपभूत आनंदः प्रतिबिंबति । विषयानन्दस्य ब्रह्मनन्दांशभूतत्वादिति भावः। एनं विषयानंदं स्वानंदाभासमात्रमनुभूय अत्रापि त्रिपुट्या अनुभवित्रनुभाव्यानुभवरूपया श्रान्तिम् खेदमाप्नुयात् ॥ ४४ ॥