भव इति चेन्न। पूर्वत्र सौषुप्तिकाद्वितीयत्वस्वप्रभत्वे सुसंपादिते । अद्वितीयस्याभावे कारणभूतस्य दुःखाद्यवरोधकस्याभावे स्वप्रकाशमुखस्वरूपं भासते । अत एव विरोधिदुःखाभावे निर्विघ्नं सुखमिष्यतामिति सुष्ठूक्तमघस्तात् (६० - ६१. श्लोकयोः ।।३८॥
किं च पूर्वसुषुप्तौ सुखानुभवाभावे सुषुप्त्यभिलाषी पुरुषः सुखसाधनी भूतशय्यादिकं प्रति प्रयत्नं न कुर्यात् । तत्करणात्पूर्वसुषुप्तौ सुखानुभवो निश्चेतुं शक्यत इत्याह, महदिति ।
महत्तरप्रयासेन मृदुशय्यादिसाधनम् । |
तत्र पूर्वसुप्तौ सुखं नो भवेच्चेत्कुतो महत्तरप्रयासेन मृदुशय्यदिसाधनं मृदुलशय्योपधानमंचादिसुखसाधनं संपाद्यते ॥ ३९॥
ननु शय्यादिकं न सुखसाधनम्। किं तु दुःखनिवारकमित्याशंक्याह, दुःखेति।
दुःखनाशार्थमेवैतदिति चेद्रोगिणस्तथा। |
एतच्छय्यादिकं दुःखनाशार्थमेवेति चेद्रोगिणस्तथा दुःखनिवारकं भवतु अरोगिणस्तु दुःखाभावादेतच्छय्यादिकं सुखायैव संपद्यत इति निश्चिनु ॥४०॥
ननु शय्यादिसाध्यस्य सुखस्याद्वैतसुखत्वमनुपपन्नमित्याशंक्य द्वाभ्या समाधत्ते, तर्हीति ।
तर्हि साधनजन्यत्वात्सुखं वैषयिकं भवेत् । |
मृदुशय्यदि सुखसाधकं चेत्तर्हि साधनजन्यत्वात्तत्सुखं वैषयिकं विषयसंबंधि भवेत् शय्यासनादिजं निद्रायाः पूर्वं सुखं निद्रासुखविलक्षणत्वाद्वैषयिकं भवत्वित्यंगीकरोति भवत्विति । अत्र निद्रायाः पूर्वं सुख वैषयिकं भवतु । निद्रा पूर्वकालिकं सुखमेव शय्यादिसाध्यं न तु निद्रासुखमिति भावः ॥ ४१ ॥