ओंकारोपासनस्य सगुणत्वनिर्गुणत्वकथनम्।
निर्गुणोपासनप्रकरणे "य उपास्ते त्रिमात्रेणेति" प्रणवोपासनाकथन- मसंबद्धं, तस्याः सगुणोपासनात्वादित्याशंक्य सा निर्गुणोपासनापीत्याह, प्रणव इति ।
प्रणवोपास्तयः प्रायो निर्गुणा एव वेदगाः । |
वेदगाः प्रश्नकठामृतनादाद्युपनिषत्प्रतिपादिताः प्रणवोपास्तयः ओंकारस्योपास्तयः प्रायो निर्गुणा एव । कचित् प्रणवोपासनस्य सगुणताप्युक्ता ॥१४७॥
द्वैविध्ये प्रश्नोपनिषदं प्रमाणयति, परेति ।
परापरब्रह्मरूप ओंकार उपवर्णितः। |
स्पष्टोऽर्थः । "एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः” इत्यु (प्रश्न. ५) पवर्णित: ॥ १४८॥
तत्र कठवल्लीं प्रमाणमाह,एतदिति ।
एतदालंबनं ज्ञात्वा यो यदिच्छति तस्य तत् । |
“एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं पर"मिति (कठ.१.२.१६.) इत्येतालम्बनसाधनम् परमपरं च । तत् ज्ञात्वा यस्तयोर्यदिच्छति तस्य तत् सिध्यतीति पृच्छते नचकेतसे यमेन प्रोक्तम् ॥ १४९
निरुक्तार्थस्य पिंडितार्थकथनम् ।
उक्तमर्थमुपसंहरति, इहेति ।
इह वा मरणे वाऽस्य ब्रह्मलोकेऽथवा भवेत् । |