पासनं कुर्वाणाः। अप्रतीकोपासका मनोमयत्वभारूपत्वसत्यसंकल्पत्वाद्यनेकधर्मविशिष्टं ब्रह्मैवाहमस्मीत्यहंग्रहपासका अन्ये । तेषु सर्वानमानवः पुरुषो ब्रह्मलोकं गमयति उतान्यतरानिति संदेहे अप्रतीकालंबनानेव नयतीति बादरायणोऽभिप्रैति । ननु “अनियमः सर्वासामविरोधः शब्दानुमानाभ्यां”, (सू.३.३.३१.) इति सूत्रे नयने नियमाभावस्योक्तत्वात्केषांचिदेव नयने तद्विरोधः स्यादित्यत आह, उभयथेति । उभयथा अदोषात् , कांश्चिन्नयति न कांश्चिदित्युभयथाभ्युपगमे दोषस्याभावात् । अत्र सर्वशब्देन प्रतीकालम्बनोपासकातिरिक्तानामेव गृहीतत्वात् । तन्मात्रग्रहणे कारणमाह, तत्क्रतुश्चेति । तत्क्रतुः तस्य परब्रह्मणः क्रतुः संकल्पः उपासनं यस्य स तथाभूतः । “तं यथा यथोपासते तदेव भवति" "यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम्”। इति श्रुतिस्मृत्योः यद्विषय उपासकस्तद्भावमेतीति कार्यब्रह्मोपासकानामेव तत्प्राप्तिः। अप्रतीकोपासकस्य सकामस्य ब्रह्मलोकः फलम् । प्रतीकोपासकस्य तु प्रतीकस्यैव प्राधान्यान्न तस्य ब्रह्मलोकावाप्तिः ॥ १४५॥
मोक्षस्यावश्यं ज्ञाननिमित्तकत्वात् सकामोपासकस्य कथं तत्वज्ञानोत्पत्तिरित्याशंक्याह, निर्गुणेति ।
निर्गुणोपास्तिसामर्थ्यात्तत्र तत्वमवेक्षते । |
अयं सकामर्निर्गुणोपासको निर्गुणोपास्तिसामर्थ्यात् तत्र ब्रह्मलोके तत्वमवेक्षते जानाति । ननु सकामस्य निर्गुणोपासकस्य ब्रह्मलोकावाप्तिः फलमित्युदाहृतप्रमाणैरवगम्यते । न तु नियमेनोपासनापरिपाको भवतीति ज्ञायते । तथा च कथमुच्यते उपासनासामर्थ्यात्तत्र ज्ञानोदय इतीत्यत आह,पुनरिति । अयं तस्माद्ब्रह्मलोकान्न पुनरावर्तते । “अनावृत्तिः शब्दात् अनावृत्तिः शब्दात्” (सू.४.४.२२.) "इमम् मानवमावर्तम् नावर्तन्ते न स पुनरावर्तते” (छां, ४. १५. ६.) इत्यादिभिः पुनरावृत्त्यभावकथनेन तद्बलात्तत्रावश्यमुपासनापरिपाकोऽपि भवतीति कल्पनीयमिति भाति । तत्रोपासनापरिपाके किं तस्य फलमित्यत आह, कल्पान्त इति। अयं कल्पान्ते ब्रह्मणा सह मुच्यते ॥ १४६ ॥