रार्थकत्वस्य गृहीतत्वादुपास्यसाक्षात्कार्यब्रह्मणोर्वेदने न कापि तुल्यधर्मता । सच्चिदानंदस्वरूपं प्रत्यगात्माभिन्नं परं ब्रह्म साक्षात्कायम् । चित्तालंबनावश्यकीभूतमुपासकातिरिक्तं ब्रह्मोपास्यं भवति । उपासनाया उपास्योपासकोपासनादित्रिपुटी निमित्तत्वात् । नैवमुपास्यं ब्रह्म मुख्यं भवितुमर्हति । तत्सर्वदा गौणमेव स्यात् । न हि तत्त्वतो विचार्यमाणे सति निर्गुणब्रह्मोपासना संभवत्येव । अत एवोक्तं “अवास्तवी वेद्यता चेदुपास्यत्वं तथा न किम्’ इति । तथापि विचारचतुरेतराणां ब्रह्मसाक्षात्कारासमर्थानां 'ब्रह्मास्मी'त्यनवरतचिन्तनयाऽनुभूतेरभावेऽप्यवास्तव्या उपासनायाः सामर्थ्यात् संवादिभ्रमस्थल इव ब्रह्मसाक्षात्कारस्संपद्यत इत्युपासनायाः ब्रह्मसाक्षात्कारोपकारकत्वमभिहितं भवतीति ॥५६॥
ननु निर्गुणं ब्रह्म अवाङ्मनसगोचरमित्येवंरूपेणैव ज्ञातुं शक्यत इति चेदेवमेवोपासितुमपि शक्यमित्याह, वागिति ।
वागाद्यगोचराकारमित्येवं यदि वेत्यसौ । |
असौ जिज्ञासुः परं ब्रह्म वागाद्यगोचराकारमित्येवं यदि वेत्ति तर्हि वागाद्यगोचराकारमिति कुतो नो उपासीत ? तथैवोपासितुं शक्यमिति भावः।५७।
निर्गुणब्रह्मण उपास्यत्वेऽभ्युपगम्यमाने सति सगुणत्वमेव प्रसज्येतेत्याशंक्य, वेद्यत्वेऽपि, तत्तुल्यमेवेति पुनः प्रतिबंद्याह, सगुणत्वेति ।
सगुणत्वमुपास्यत्वाद्यदि वेद्यत्वतोऽपि तत् । |
निर्गुणब्रह्मण उपास्यत्वात्तस्य सगुणत्वमापद्यत इति चेद्वेद्यत्वतोऽपि तदापद्यते । ननु निर्गुणे ब्रह्मणि लक्षणावृत्त्या वेद्ये सति न तत्र सगुणत्वापत्तिरित्याशंक्याह, वेद्यमिति । लक्षणावृत्त्या तद्वेद्यं चेत्तल्लक्षणावृत्या लक्षितं यन्निर्गुणं ब्रह्म समुपास्यताम् ॥ ५८ ॥
ननु निर्गुणब्रह्मण उपास्यत्वं युक्त्या सिध्यतु नाम । तथापि श्रुत्या निषिध्यते इत्यापत्त्यन्तरमुत्थापयति, ब्रह्मेति ।