पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९४
[ध्यानदीप
पञ्चदशी

 सकामो देहपातानंतरं सत्यं लोकमनुप्राप्य तत्र परिपक्वज्ञानतया कल्पान्ते ब्रह्मणा सह मुक्तो भवति । निष्कामस्तु यदा ज्ञानाविर्भावस्तदैव मुक्तः । तस्मिन्नादेहपातमसति मरणे काले आविर्भूतज्ञानो यदि तदैव मुक्तो भवति । तदाप्यपरिपाके सत्यं लोकमनुप्राप्तः परिपाकेन ब्रह्मणा सह मुक्तो भवति । सगुणोपासकः देहपातानंतरं सत्यलोकमुपगतः आत्मतत्त्वे ब्रह्मणोपदिष्टस्तेन सह मुच्यते । क्रममुक्तिफलभूते ब्रह्मलोके ज्ञानानन्तरमपि प्रारब्धस्य शरीरस्य कल्पान्तपर्यन्तं विद्यमानत्वात् तदन्ते ब्रह्मणा सह मुक्तिः । प्रतीकोपासकश्च यम् यम् वापि स्मरन् त्यजत्यंते कलेवरं तं तमेवैति । एवं संक्षेपतः प्रतिपादितमुपासनाप्रकारमस्मिन् प्रकरणे विस्तरतो व्याख्यास्यामः ॥ ५५ ॥

 उपासनायाश्चित्तवृत्तिरूपत्वादवाङ्मनसगोचरस्य निर्गुणब्रह्मण उपासना दौर्लभ्यमाशंक्याह,अवागिति ।

अवाङ्मनसगम्यं तन्नोपास्यमिति चेत्तदा ।
अवाङ्मनसगम्यस्य वेदनं न च संभवेत् ॥५६॥

 अवाङ्मनसगम्यं मनसा चिन्तितुं वाचा वर्णितुं वाऽशक्यं “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" (तै.२-४) इति श्रुतेः । तन्निर्गुणं ब्रह्मोपास्यं नेत्युच्यते चेत्प्रतिबंद्या प्रतिवदति, अवागिति । तथा अवाङ्मनसगम्यस्य वेदनं ज्ञानं न संभवति ज्ञानस्यापि चितवृत्तिरूपत्वात्।

 अत्रायमाशयः। 'सत्यं ज्ञानमनन्तं ब्रह्मे'त्यादिश्रुतिभिर्निर्गुणब्रह्म परोक्षतया ज्ञायते । परोक्षज्ञानं च चित्तवृत्तिरूपम् वेदनास्वरूपत्वात् । “अप्रमेयमनादिं च यद् ज्ञात्वा मुच्यते बुधः” (अमृ. ९) इति श्रुतेर्निर्गुणब्रह्मणो धीव्याप्यत्वमभिहितम् । अपास्तं च तस्य घटादेरिव चिदाभासावभासितत्वरूपं फलव्याप्यत्वम्। स्वयमेव प्रकाशरूपत्वात् । तृप्तिदीपे ९०-९६ श्लोकेषु सभ्यग्विचारितोऽयं विषयः । एवं न यद्रूपेण निर्गुणं ब्रह्म वेद्यं भवति तद्रूपेणैवोपास्यं च भवति । यथा श्रुत्यैव ब्रह्म वेद्यं भवति तथैवोपासनापि कार्येत्यथस्तादुच्यते । एवं सत्यत्र वेदनशब्देन फलव्याप्त्यभावेऽपि धीव्याप्यत्वस्याभिहितत्वाद्वेदनोपासनयोरुभयत्र ब्रह्मणः क्रियाविषयत्वमवश्यमभ्युपगम्यते । परं तु "ब्रह्मविदाप्नोति पर"मित्यत्र विदिक्रियायाः साक्षात्का-