अथ
कल्याणपीयूषव्याख्यासमेता
पंचदशी
ध्यानदीप प्रकरणम् ॥ ९॥
संवादिभ्रमस्य मुक्तिफलकत्वकथनम् ।
एवंविचारेण साक्षात्कर्तुमसमर्थानामपि फलप्राप्त्युपायं विवरीतुमिदं प्रकरणमारभते, संवादीति ।
संवादिभ्रमवद्रह्मतत्त्वोपास्त्यापि मुच्यते । |
संवादिभ्रमवत् स्वार्थाविरोधेन वदतीति संवादी, स चासौ भ्रमश्च तथाभूतः । अतस्मिन् तद्बुद्धिरिति भ्रमलक्षणा भ्रमज्ञानं तत्वतो विसंवदति । तथापि केषुचित्समयेषु भ्रमज्ञानप्रवृत्तोऽपीप्सितार्थमवाप्नोति, यथा मणिप्रभां दृष्ट्वा मणिभ्रमेण प्रवृत्तो जनो मणिं लभते एव; अतो मणिप्रभायां मणिबुद्धिरूपो भ्रमः संवादी भवति । अन्यत्र काचप्रभां दृष्ट्वा मणिबुद्ध्या प्रवृत्तः काचमेव लभते। अत्र काचप्रभायां मणिबुद्धिरूपो भ्रमो विसंवादी भवति । संवादिभ्रमवत् भूमज्ञानेनापि प्रवृत्तस्येप्सितार्थसिद्धिर्यथा, तद्वद्रह्मतत्त्वोपास्या निर्गुणब्रह्मतत्त्वस्य उपास्त्या लक्ष्यस्य समीपेऽस्तित्वमुपास्तिः, यत्किचिदालंबनेन ध्यानमित्यर्थः । “यथाशास्त्र समर्थितं किंचिदालंबनमुपादाय तस्मिन् समानचित्तवृत्तिसंतानकरणं तद्विलक्षण प्रत्ययानंतरितमुपासने"ति श्रीभगवत्पादाः, आप्तोपदेशं विश्वस्य वृत्यन्तरानन्तरितैः प्रत्ययैर्विचाराशक्तेन श्रद्धालुना कृता चिन्तोपासनेत्यधस्ताद्वर्णिता,(९-७९)। एवं रूपयोपास्याऽपि मुच्यते । नेदं स्वकपोलकल्पितं । किन्तु श्रुतिप्रसिद्धमित्याह, उत्तरे इति ।अतः उत्तरे तापनीये नृसिंहोत्तरतापनीयश्रुतावोंकारस्योपासना अनेकथा श्रुता ।
ननु साक्षात्कार्यं परं ब्रह्म यत्किंचिदालंबनमादायोपासितव्यमित्युक्तम् । कथमुपासना कर्तव्या, ब्रह्मद्दष्ट्यालंबनं वस्तूपास्यते, आहोस्त्वित्, तदृष्ट्या ब्रह्मो-