पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
[कूटस्थदीप
पञ्चदशी

उपक्रमादिलिंगैरेकवाक्यतया अबुद्ध्वा प्रामाण्यबुद्ध्या श्रुतौ प्रवृत्तोऽपि जडः संचित फलादपक्वमनस्कः अद्वैतापेतमार्गे द्वैतदूषितेऽपारे संसारे निमग्नः पारमन्विच्छन् इतस्ततो भ्राम्यति, जन्मान्तरसुकृतकृतोपचयस्तद्विलक्षणो विवेकी त्वखिलं श्रुत्यर्थमेकवाक्यतया बुद्ध्वा आनंदवारिधौ "आनंदो ब्रह्मेति व्यजानात्" (तै.३.६.) "रसो वै सः"(तै.२.७.) इत्यादि श्रुतिशतप्रतिपादिताद्वैताखंडरसानंदसुधासिंधौ तिष्ठति प्लवते ॥ ७४ ॥

 एवंभूतस्य विवेकिनो न कोऽपि मायाकृतातंक इति दृष्टान्तमुखेनाह, मायेति ।

मायामेघो जगन्नीरं वर्षत्येष यथा तथा ।
चिदाकाशस्य नो हानिर्नवा लाभ इति स्थितिः ॥७५॥

 यथा मेघो नीरं वर्षति तथा माया जगद्वर्षति । यथा वर्षेणाकाशस्य नोहानिर्नवा लाभस्तथा जगता चितो नो हानिर्नवा लाभ इति स्थितिः । मेघमंडलमतीत्य वर्तमानस्य वर्षप्रयुक्ताकुलीभावाभाव इव जगत्कृताकुलीभावो नास्तीति भावः ॥ ७५ ॥

 फलकथनेन प्रकरणमुपसंहति, इममिति ।

इमं कूटस्थदीपं योऽनुसंधत्ते निरन्तरम् ।
स्वयम् कूटस्थरूपेण दीप्यतेऽसौ निरन्तरम् ॥ ७६ ॥

 कूटस्थदीपं कूटस्थतत्त्वस्य दीपवत् प्रकाशकमिमं प्रकरणं यो निरन्तरमनि शमनुसंघत्तेऽत्र विपुलतया प्रतिपादितमर्थं मनसि संयोजयत्यसौ ज्ञानी स्वयं कूटस्थरूपेण कुटवन्निर्विकारस्य प्रत्यगात्मनो रूपेण निरंतरं दीप्यते प्रकाश्यते ॥ ७६॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनात्रि

गोत्रसमुद्भतेन लिङ्गन सोमयाजिना विरचितेयं कूटस्थदीप

प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति कूटस्थदीपप्रकरणम् ।