ईशस्यापि मायाकल्पितत्वे सोऽपि जीव इवाज्ञः स्यादित्याशंक्य तस्य सर्वज्ञत्वादिकमपि मायाकल्पितमित्याह, सर्वज्ञेति ।
सर्वज्ञत्वादिकं चेशे कल्पयित्वा प्रदर्शयेत् । |
माया ईशे सर्वज्ञत्वादिकं कल्पयित्वा प्रदर्शयेत् । तत्रोपपत्तिमाह, धर्मिणमिति । या माया धर्मिणमीशं कल्पयेदस्याः धर्मकल्पने को भारः ? ॥ ६४ ॥
कूटस्थस्य सत्यत्वनिरूपणम् ।।
ननु कूटस्थोऽपि मायाकल्पितः स्यादिति शंकां वारयति, कूटस्थ इति ।
कूटस्थेऽप्यतिशंका स्यादिति चेन्मातिशंक्यताम् । |
माऽतिशंक्यताम् प्रमाणमतिक्रम्य शंकां मा कुर्वीत । अतिशंकाया अकरणे कारणमाह, कूटस्थेति । कूटस्थमायिकत्वे कूटस्थस्य मायाकल्पितत्वे प्रमाणं नहि विद्यते स्पष्टमन्यत् ॥ ६५॥
न केवलं कूटस्थमायिकत्वे प्रमणाभावः, किन्त्वमायिकत्वे तस्य प्रमाण बाहुल्यम् च दृश्यत इत्याह, वस्तुत्वमिति ।
वस्तुत्वं घोषयन्त्यस्य वेदान्ताः सकला अपि । |
स्पष्टं पूर्वार्धम् । वस्तुत्वं पारमार्थिकसत्यत्वम् । अत्र कूटस्थपारमार्थिकत्वविषये सपत्नरूपं विपक्षभूतमन्यद्वस्तु किंचन ते न सहन्ते । “ सदेव सोभ्येदमग्र आसीदि"त्यादिश्रुतेः (छ. ६. २. १) ॥ ६६ ॥
मुमुक्षूणां श्रुतिरेव शरणम् ।
मुमुक्षुजनोपयोगिन्यस्मिन् ग्रन्थे श्रुतीनां स्पष्टार्थविचारणैवेष्टा न तु कर्क शतर्कोपन्यास इत्याह, श्रुत्यर्थमिति ।
श्रुत्यर्थं विशदीकुर्मो न तर्काद्बच्मि किंचन । |