मायेति
मायाभासेन जीवेशौ करोतीति श्रुतत्वतः । |
स्पष्टः पूर्वार्घः। जीवेशयोर्मायाकल्पितत्वे देहादिभ्यो वैलक्षण्यं न स्याद्वित्याशंक्याह, स्वच्छाविति । काचकुंभः पार्थिवोऽपि साधारणकुंभाद्विलक्षणो यथा भाति स्वच्छत्वात्, तद्वत् तौ जीवेशौ मायकोवपि स्वच्छौ अतो वैलक्षण्येन भासेते इत्यर्थः ॥६०॥
ननु घटकाचकुंभोपादानभूतयोर्मृद्विशेषयोर्वैलक्षण्यात् तयोरपि वैलक्षण्यं न्याय्यमेव । मायायास्त्वेकत्वात् तत्कार्यभूतयोर्जीवेश्वरयोः वैलक्षण्यमसमंजसमित्याशंक्याह, अन्नेति ।
अन्नजन्यं मनो देहात्स्वच्छं यद्वत्तथैव तौ । |
यथाऽन्नजन्यं मनः अन्नकार्यभूतात् देहात्तदपेक्षया स्वच्छं तथा मायिकावपि जीवेशौ मायाकल्पितात् सर्वस्मादन्यस्माज्जगतः स्वच्छतां गता ॥ ६१॥
तयोश्चिद्रूपमपि मायाकल्पितमेवेत्याह,चिदूपत्वमिति।
चिद्रूपत्वं च संभाव्यं चित्त्वेनैव प्रकाशनात् । |
चित्वेनव चैतन्यरूपेणैव प्रकाशनात् तयोर्जीवेश्वरयोः चिद्रूपत्वं च संभाव्यतम् । स्पष्टमन्यत् ॥ ६२॥
मायाया जीवेश्वरकल्पनेन किमप्याश्चर्यमित्यनुभवं दर्शयति, अस्मदिति ।
अस्मन्निद्रापि जीवेशौ चेतनौ स्वप्नगौ सृजेत् । |
निद्राशब्दोऽत्र सौषुप्तिकमायापर: । स्पष्टमन्यत्, ॥ ६३॥