पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥८॥ ]
३५९
कल्याणपीयूषव्याख्यासमेता

निजभार्यायै मैत्रेय्यै उवाच ॥ ३९ ॥

 विनाशरहित आत्मा ततो विविच्योपदिष्टश्चेत्याह, अविनाशीति ।

आविनाश्ययमात्मेति कूटस्थः प्रविवेचितः ।
मात्रासंसर्ग इत्येवमसंगत्वस्य कीर्तनात् ॥ ४० ॥

 अयमात्मात्वविनाशी विनाश रहितो नित्य इति कुटस्थो जीवात् प्रविवेचितः विभाजितः । "अविनाशीवारेऽयमात्मानुच्छतिधर्मा" (बृ.४.५.१४) इति श्रुतेः । अविनाशित्वेऽसंगत्वं कारणमित्युक्तमित्याह,मात्रेति । “मात्रासंसर्गत्वस्यभवाती” ति श्रुतौ एवमसंगत्वस्य कीर्तनात् कूटस्थस्य मात्रासंसर्गत्वस्य मीयन्त इति मात्राः देहादयः तेषां संगराहित्यस्य कीर्तनात् वक्तेः ॥४०॥

 ननु ‘‘जीवापेतं वाव किल इदं म्रियते न जीवो म्रियते” (छा.६.११.३.) इति श्रुतेः जीवस्याविनाशित्वमुक्तं भवतीत्याशंक्य लोकान्तरगमनविषयमिदं वाक्यं न तु मोक्षपरमिति परिहरति, जीवेति ।

जीवापेतं वाव किल शरीरं म्रियते न सः ।
इत्यत्र न विमोक्षोऽर्थः किं लोकान्तरे गतिः ॥ ४१॥

 उक्तश्रुतौ विमोक्ष आस्यन्तिकनिश्रेयसरूपो विशेषमोक्षोऽर्थो न, किंतु पुण्यपापफलानुभवयोग्यस्य देहान्तरस्य प्राप्तये स्वर्गादिलोंकान्तरे गतिः गमनमर्थः ॥ ११ ॥

 ननु जीवस्य विकारस्वभात्वे अहं ब्रह्मास्मीत्यविकरिब्रह्मैक्यज्ञानं नोदेतीत्याशंक्याह, नेति ।

नाहं बह्मेति बुध्येत स विनाशीति चेन्न तत् ।
सामानाधिकरण्यस्य बाधायामपि संभवात् ॥ ४२॥

 विनाशी नाशशीलः स जीवः अहं ब्रह्मेति न बुध्येत न जानीयात् । विकार्यविकारित्वरूपविरुद्धधर्माक्रान्तयोर्जीवब्रह्मणोरेकत्वासंभवादिति चेन्न । मुख्यसमानाधिकरण्यस्य बाधायामभावेऽपि सामनाधिकरण्यस्य संभवात् अहं