निजभार्यायै मैत्रेय्यै उवाच ॥ ३९ ॥
विनाशरहित आत्मा ततो विविच्योपदिष्टश्चेत्याह, अविनाशीति ।
आविनाश्ययमात्मेति कूटस्थः प्रविवेचितः । |
अयमात्मात्वविनाशी विनाश रहितो नित्य इति कुटस्थो जीवात् प्रविवेचितः विभाजितः । "अविनाशीवारेऽयमात्मानुच्छतिधर्मा" (बृ.४.५.१४) इति श्रुतेः । अविनाशित्वेऽसंगत्वं कारणमित्युक्तमित्याह,मात्रेति । “मात्रासंसर्गत्वस्यभवाती” ति श्रुतौ एवमसंगत्वस्य कीर्तनात् कूटस्थस्य मात्रासंसर्गत्वस्य मीयन्त इति मात्राः देहादयः तेषां संगराहित्यस्य कीर्तनात् वक्तेः ॥४०॥
ननु ‘‘जीवापेतं वाव किल इदं म्रियते न जीवो म्रियते” (छा.६.११.३.) इति श्रुतेः जीवस्याविनाशित्वमुक्तं भवतीत्याशंक्य लोकान्तरगमनविषयमिदं वाक्यं न तु मोक्षपरमिति परिहरति, जीवेति ।
जीवापेतं वाव किल शरीरं म्रियते न सः । |
उक्तश्रुतौ विमोक्ष आस्यन्तिकनिश्रेयसरूपो विशेषमोक्षोऽर्थो न, किंतु पुण्यपापफलानुभवयोग्यस्य देहान्तरस्य प्राप्तये स्वर्गादिलोंकान्तरे गतिः गमनमर्थः ॥ ११ ॥
ननु जीवस्य विकारस्वभात्वे अहं ब्रह्मास्मीत्यविकरिब्रह्मैक्यज्ञानं नोदेतीत्याशंक्याह, नेति ।
नाहं बह्मेति बुध्येत स विनाशीति चेन्न तत् । |
विनाशी नाशशीलः स जीवः अहं ब्रह्मेति न बुध्येत न जानीयात् । विकार्यविकारित्वरूपविरुद्धधर्माक्रान्तयोर्जीवब्रह्मणोरेकत्वासंभवादिति चेन्न । मुख्यसमानाधिकरण्यस्य बाधायामभावेऽपि सामनाधिकरण्यस्य संभवात् अहं