दये तद्धटकज्ञानात्मकं फलं ब्रह्मचैतन्यात्मकमेवेति चेन्नेत्याह, नेति । ब्रह्मचैतन्यं फलं न; कुतः ? मानाद्बुद्धिवृत्तेः प्रागपि तस्य ब्रह्मचैतन्यस्य सत्वतो विद्यमानत्वात् । फलस्य तदुत्तरकालिकत्वनियमादित्यर्थः ॥ १० ॥
“ज्ञातत्वं चिदाभासफलोदय” इति वचने श्रीसुरेश्वराचार्यचरणोक्ति- विरोधं शंकते, परागिति ।
परागर्थप्रमेयेषु या फलत्वेन सम्मता । |
परागर्थप्रमेयेषु परांचश्च ते अर्थाश्च प्रत्यभिन्नभूता बाह्या घटादयः, त एव प्रमेयाः प्रमाणविषयाः, तेषु सत्पु या संवित् प्रमाणानां फलत्वेन सम्मता सैवेहाद्वैतशास्त्रे वेदान्तोक्तिप्रमाणत: “अयमात्माब्रह्मे” (वृ.४.४.५ ) त्यादि वेदान्तवाक्यो- क्तिरूपात्प्रमाणान्मेयो ज्ञेयोऽर्थः प्रमितेर्विषयो भवति । आत्मचैतन्यस्यैव श्रुतिप्रति पादिततया तस्यैवात्र वचने फलत्वोक्त्याऽऽत्मचैतन्यस्य फलत्वाभावोक्तिरसंगतेति भावः ॥ ११ ॥
तदाशयवर्णनेन विरोधं परिहरति, इतीति ।
इति वार्तिककारेण चित्सादृश्यं विवक्षितम् । |
इत्यत्र वचने वार्तिककारेण चित्सादृश्यं चिदाभासफलस्य चिता ब्रह्म चैतन्येन सादृश्यं विवक्षितम् । न तु चिद्रूपत्वम् । अन्यथा वार्तिककारस्य भगवत्पादवचनविरोधः स्यादित्याशयेनाह, बह्मेति । ब्रह्मचित्फलयो: ब्रह्मचितः फलस्य च भेदः सहस्रथां विश्रुतः । तदीयं वचनं चेदम् :- “चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः । मया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो ह्यहं । करणं कर्म कर्ता च क्रिया स्वप्ने फलं च धीः । जाग्रत्येवं यतो दृष्टा द्रष्टा तस्मात्ततोन्यथा॥” अत्र फलादीनां ब्रह्मचैतन्यभास्यत्वोक्तेः फलीभूतस्य चिदाभासस्य ब्रह्मचैतन्याद्भेदः स्पष्टमेवोक्तः । तथा च वार्तिककारेण संविदः फलत्वोक्तिः भगवत्पादवचनाविरोधाय संवित्सादृश्याभिप्रायेणैवेत्यभ्युपेयमिति भावः ॥ १२ ॥