चिदाभाससाहित्यमन्तरेण न केवलबुद्धेर्जडात्मिकायास्तत्सामर्थ्यमित्याह, आभासेति ।
आभासहीनया बुद्ध्या ज्ञातत्वं नैव जन्यते । |
आभासहीनया चिदाभासविवर्जितया केवलबुद्ध्या घटस्य ज्ञातत्वं ‘ज्ञातो घट' इति व्यवहारहेतुभूतं ज्ञानं नैव जन्यते । तत्र कारणमाह, तादृगिति। तादृग्बुद्धेराभासहीनाया बुद्धेर्विकारिणः प्रकाशरहितस्य मृदादेः को विशेषः स्यात् ? न कोऽपि भेद इत्यर्थः। चिदाभासविनिर्मुक्ता बुद्धिर्मुद्रजडा। यदि केवलजडस्य ज्ञातताजनकत्वमभ्युपेयते तदा जडेन घटेनैव ज्ञातताजनने ब्रह्मणैव ज्ञातो घट इति भानसंभवाद्रुद्धः सर्वथा नैरर्थक्यमेव स्यात् । न हि घटसतामात्रेण बुद्धिव्यापाराभावे ज्ञातो घट इति ज्ञानं केनाप्यनुभूयते । अतो जडात् घटा द्बुद्धेर्विशेषलाभाय तस्य चिदाभाससाहित्यमवश्यमभ्युपेयमिति भावः ॥ ८ ॥
उक्तमर्थं प्रपञ्चयति, ज्ञात इति ।
ज्ञात इत्युच्यते कुम्भो मृदा लिप्तो न कुत्रचित् । |
कुत्रचित्कुत्रापि मृदा लिप्तः कुंभो ज्ञात इति नोच्यते । तथा धीमात्र व्याप्तकुंभस्य चिदाभासरहितेन जडेन धीमात्रेण व्याप्तो यः कुंभस्तस्य ज्ञातत्वं नेष्यते नोत्पद्यते । तदजननेन धीमालव्याप्तावपि ज्ञात इति नोच्यत इति भावः॥९॥
उक्तार्थम् निगमयति, ज्ञातत्वमिति ।
ज्ञातत्वं नाम कुंभेऽतश्चिदाभासफलोदयः । |
अत आभासहीनाया बुद्ध्या जातत्वजनकत्वाभावात् कुंभे ज्ञातत्वं नाम चिदाभासफलोदयः चिदाभासव्याप्तिरूपस्य फलस्योदय उत्पत्तिः । चिदाभास व्याप्या घटादिज्ञानमुदेतीति भावः । ननु चिदाभासेनायं घट इति ज्ञानरूपफलो-