कर्माक्षये त्वसौ नैव शाम्येद्ध्यानसहस्रतः ॥ २६३ ॥ |
देहस्य प्रारब्धनिमित्तत्वात्तस्मिन् प्रारब्धकर्मणि क्षीणे सत्यहं मनुष्य इति व्यवहारो निवर्तते । कर्मक्षये तु प्रारब्धस्याक्षये त्वसा व्यवहारो ध्यानसहस्रतो- ऽसंख्येयध्यानेभ्यो न शाम्येदेव । जीवन्मुक्तस्याप्यवश्यमुपभोगेनैव प्रारब्धस्यं नाशादिति भावः ॥२६३॥
ननु प्रारब्धकृतव्यवहारस्य वैकल्याय ध्यानमवश्यकर्तव्यमेवेत्याशंक्याह, विरलत्वमिति ।
विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तुते । |
अहं मनुष्य इति व्यवहृतेः व्यवहारस्य विरलत्वं कादाचित्कत्वमिष्टं चेत्ते ध्यानमस्तु। अहं तु व्यवहृतिमबाधिकां असन्तापकारिणीं पश्यन् कुतो ध्यायामि । सम्यक् ज्ञानवतो मे व्यवहारस्याबाधकत्वाद्ध्यानमनावश्यकमिति भावः ।। २६४॥
विक्षेपनिवारणाय ज्ञानिनोऽपि समाधिरावश्यकीत्यत आह,विक्षेप इति।
विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम । |
सुलभा पदयोजना । विक्षेपस्तत्प्रतीकारः समाधिश्व विकारशीलस्य मनसो धर्मः । तदभावान्न ज्ञानिनः समाध्यपेक्षेति भावः ॥२६५॥
ननु समाध्यभावे तत्फलीभूतात्मानुभवः कथं सिध्यतीत्याशंक्याह,नित्येति।
नित्यानुभवरूपस्य को वा मेऽनुभवः पृथक् । |
स्वस्वरूपस्य नित्यानुभवरूपस्य ब्रह्मसाक्षात्कारादित्यर्थः । मे पृथक् समाधिफलरूपः प्रत्येकानुभवः कः ? उत्तरार्थस्तु व्याख्यातपूर्वः ॥ २६६ ॥
स्वस्य सर्वव्यवहारेषु कर्तृत्वनिरासे व्यवहारनियमो न स्यादित्याशंक्या