ननु तवापि श्रवणमननादेरावश्यकतैव स्यादित्याशंक्याज्ञानिविषयं तत्प्रतिपादकं वाक्यमिति समाधत्ते, शृण्विति ।
शृण्वन्त्वज्ञाततत्त्वास्ते जानन् कस्माच्छृणोम्यहम्। |
ते अज्ञाततत्त्वाः असाक्षात्कृतब्रह्मभावा गुरुभ्यः शास्त्राणि श्रुण्वन्तु । अहं तु जानन् ब्रह्मभावमापन्नः सन् कस्माद्धेतोः शृणोमि । तथैव तत्त्वविषये ये। संशयमापन्नास्ते श्रुतार्थं मन्यन्तां संशयोच्छेदनायेत्यर्थः। संशयोऽहं न मन्ये । "श्रोतव्यो मन्तव्यो निदिध्यासितव्य" (बृ. ४. ५. ६) इति वाक्यं जिज्ञासुपरं न तु ज्ञानिपरमिति भावः ॥२६०॥
तथैव ज्ञानिनो निधिध्यासावश्यकताऽपि नास्तीत्याह, विपर्यस्त इति ।
विपर्यस्तो निधिध्यासेत्किम् ध्यानमविपर्ययात् । |
आत्मज्ञानस्य दार्ढ्याभावाद्विपर्यस्तः आमन्यतत्ज्ञानरूपो विपर्यासः तद्वान् निदिध्यासेत् पौनःपुन्येनैकाग्र्येण सभ्यक्ज्ञानावाप्तिपर्यन्तं चिन्तयेत् । मे ध्यानं किमर्थम् ? कुतोऽयं प्रश्न इत्यत आह, अविपर्ययादिति । आत्मज्ञानस्य अविपर्ययात् । कदाचिदप्यहं देहात्मत्वविपर्यासं देह एवात्मेति विपरीतज्ञानं न भजामि ॥२६१ ॥
ननु विपर्ययाभावेऽहं मनुष्य इत्यादिव्यवहारः कथं घटत इत्याशंक्य चिरकालवसनावशाद्धटत इत्याह, अहमिति ।
अहं मनुष्य इत्यादिव्यवहारो विनाऽष्यमुम् । |
स्पष्टोऽर्थः ॥२६२॥
तस्य व्यवहारस्यावधिमाह, प्ाररब्धेति ।
प्रारब्धकर्मणि क्षीणे व्यवहारो निवर्तते । |