शुभावहमिव दृश्यते न किमपीत्यर्थः । उत्कटानुरागजनकत्वेन प्रतीयमानाऽपिकामिनीमांसवसामेदोमयत्वेन विचार्य निश्चिता न रागाय कल्पते । प्रत्युत जुगुप्सामेव जनयतीति भावः ॥ १४०॥
एवं दिङ्मात्रेण कुत्रचिदोषप्रदर्शनेनान्यत्रापि दोषाः शास्त्रत इतिहास- पुराणादिभ्योऽवगन्तव्या इत्याह, एवमिति ।
एवमादिषु शास्त्रेषु दोषाः सम्यक् प्रपंचिताः । |
एवमादिषु एवं वनितावित्तादिषु दोषाः शास्त्रेषु सम्यगनुभवपूर्वकं प्रपंचिता विपुलतया प्रतिपादिताः । “भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्लशोणितश्लेष्माश्रुदूषिते विण्मूत्रवातपित्तकफसंघाते दुर्गम्धे नि:सारेऽस्मिन् शरीरे किं कामोपभोगैः” (मैत्रायणी १-२) “न वै स्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येताः” (शत. ब्रा. ११-५, १–९) “तज्जायाऽजाया भवति यदस्यां जायते पुनः" (ऐत. ब्रा. ७.३.१०) इत्यादिभिरित्यर्थः । तानि दोषजालान्यनिशं न विद्यते निशा चेष्टाविरामसमयो यस्य तत् अविरतमित्यर्थः । विमृशन् दुःखेषु कथं मज्जति । निमग्नो भवति ॥ १४१ ॥
भोगानामनिष्टहेतुत्वे स्पष्टे सति तृष्णानुत्पत्तिरिष्टा सिध्यतीति सदृष्टान्तमाचष्टे, क्षुथेति ।
क्षुथया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति । |
क्षुथया पीड्यमानोऽपि प्राणहरणकारणं विषमिति जानन्नत्तुं नेच्छति । हि निश्चयार्थे । किमुत निवारितक्षुथित्याह, मिष्टेति । मिष्टान्नध्वस्ततृट् मिष्टं मधुररससंयुतं यदन्नं तेन ध्वस्ता निवारिता तृट् अशनाया यस्य सः अमूढो जीवितान्मरणमेव वरमित्येवंविधं मोहमनापन्नो जानन् विषेऽनर्थकारित्वं जानन् न जिघत्सति अत्तुं नेच्छतीति किं वक्तव्यम् ॥ १४२॥