पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२९१
कल्याणपीयूषव्याख्यासमेता

गंधर्वपत्तने किं चित्रैद्रजालिकनिर्मितं ।
जानन् कामयते किं तु जिहासति हसन्निदम् ॥ १३७॥

 जिहासति परित्यक्तुमिच्छति । सुगमा पदयोजना । एवंं चैंद्रजालिकवस्तुनः काम्यस्य मिथ्यात्वेन निरसने कामना नोदेतीति दृष्टम् । तथा च काम्यनिवृत्तौ कामनानिवृत्तिरित्यत्र कामनाया अनुत्पत्तिर्विवक्षिता ॥ १३७॥

 दृष्टान्तं दार्ष्टान्तिके जगति समन्वेति, आपातेति ।

आपातरमणीयेषु भोगेष्वेवं विचारवान् ।
नानुरज्यति किंत्वेतान् दोषदृष्ट्या जिहासति ॥ १३८ ॥

 आपातरमणीयेषु आपाततः ईषद्दृष्टे: पाताद्रमणीयेषु न तु क्षोदक्षमेषु । स्पष्टमन्यत् ॥ १३८॥

 भोग्येषु जुगुप्सोत्पादनाय विषयसुखदोषविवक्षयाऽत्यन्तमोहजनकत्वा दखिलभोगजातस्य मुख्यस्थानमास्थितयोः कनककामिन्योर्मध्ये आदौ दोषनिरू- पणं करोति, अर्थेति ।

अर्थानामार्जने क्लेशस्तथैव परिपालने ।
नाशे दुःखं व्यये दुःखं धिगर्थान् क्लेशकारिणः ॥१३९॥

 नाशे चोरादिमूलकेन, व्यये भोगादिना, धिगित्यर्थविषयिणि निंदा स्पष्टमन्यत् ॥ १३९ ॥

 कामिनीविषयदोषं निरूपयति, मांसेति ।

मांसपांचालिकायास्तु यंत्रलोलेंऽगपंजरे ।
स्नाय्वस्थिम्ग्रंधिशालिन्याः स्त्रियाः किमिव शोभनम् ॥१४०॥

 स्नाय्वस्थिम्ग्रधिशालिन्याः स्नायवः शिराः अस्थीनि ग्रंथयश्च तैः शालिनी। तस्याः मांसपांचालिकायाः मांसमयी पांचालिका क्रीडायोग्या पुत्तलिका तस्याः स्त्रियः यंत्रलोले यंत्रवच्चंचलेंऽगपंजरे अंग शरीरमेव पंजरं बंधनस्थानं यथा कीरस्य पंजरस्तथा तरुणीकायो मनसो बंधनं भवतीत्यर्थः । तस्मिन् किं शोभनं ।