पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२८७
कल्याणपीयूषव्याख्यासमेता

तत्त्वेतरचिन्तनादनथः स्यादिति भावः । विस्मरणे सत्यनर्थदायी विपर्ययो भवत्येवे त्याशंक्याह, झटितीति । झटिति शिघ्रमेव पदे पदे तत्त्वस्य स्मरतो । विपर्येतुं क्वाचिदपि कालोऽवकाशो नास्ति ॥ १२६ ॥

 कृष्यादिषु भोजनादिवैलक्षण्यमाह, तत्त्वेति ।

तत्त्वस्मृतेरवसरो नास्त्यन्याभ्यासशालिनः।
प्रत्युताभ्यासघातित्वाद्बलात्तत्त्वमुपेक्षते ॥ १२७ ॥

 अन्याभ्यासशालिनोऽन्यस्यात्मविचारेतरस्य कृष्यादेरभ्यासस्वभावस्य तत्त्व- स्मृतेरवसरो नास्ति, प्रत्युताभ्यासघातित्वात् स्वभावसिद्धतर्काद्यभ्यासविरोधित्वात्त- त्वाभ्यासस्य पूर्वजन्भसुकृतविशेषेण तदानीं स्मृतमपि तत्वं बलादुपेक्षते उपेक्षया नाद्रियते ॥१२७॥

 तत्त्वानुसंधानविरोधिव्यवहारस्य त्याज्यत्वे प्रमाणभूतां श्रुतिमर्थतः पठति, तमिति ।

तमेवैकं विजानीथ ह्यन्या वाचो विमुंचथ ।
इति श्रुतं तथान्यत्र वाचो विग्लापनं त्विति ।। १२८ ॥

 “तमेवैकं जानीथ आत्मानमन्या वाचो विमुंचथ। अमृतस्यैषसेतु" रिति, मुंडकश्रुतौ(२-५) श्रुतम् । “नानुध्यायात् बहून् शब्दान् वाचो विग्लापनं हि तत्। (बृ. ४.१.२१.) इत्यन्यत्र श्रुत्या बोधितम् । प्रथमाया अयमर्थः। तमेक- मद्वितीयं सत्यज्ञानानंतात्मकं चैतन्यस्वरूपमात्मानमेवावेहि । अन्यावाचस्तत्त्वबोधा- ननुकूलाः काव्यतर्कादयो विक्षेपकारका विशेषेण परित्याज्याः । द्वितीया तु सप्तोत्तरशततमश्लोके (१०७) सुविस्तरं व्याख्याता ॥ १२८॥

 तत्त्वबोधोपयिकव्यवहारेतरत्सर्वं त्याज्यमिति श्रुत्या बोध्यते । भोजनादे- रपीतराभ्यासवद्बोधानुपयिकत्वात्त्याज्यमेवेति श्रुत्या बोधितप्रायम् । तथा च त्याज्यत्वे न श्रुतिसम्मतं भोजनादिकं किमित्यंगीकरोषीत्याशंक्य भोजनादेः परंपरया बोधोपयोगित्वं दर्शयति, आहारेति ।

आहारादि त्यजन्नैव जीवेच्छास्त्रान्तरं त्यजन् ।