पयवसानतः तात्पर्यविश्रान्तेः । स्पष्टमन्यत् । एवं च तदेकपरत्वमिति हासादयो न बाधन्ते । किंतु तदनुकूला एव भवन्तीति भावः ॥ १२३॥
तत्त्वानुसन्धाने कृष्यादीनां विक्षेपत्वंविचारः।
चित्तैकाग्रस्येतिहासादिभिरबाधेऽभ्युपगते कृष्यादिभिरप्यबाधः किं नस्यादित्याशंक्याह, कृषीति ।
कृषिवाणिज्यसेवादौ काव्यतर्कादिकेषु च। |
सेवा पराधीनवृतिः, काव्यं नगनगरार्णवाद्यष्टादशवर्णनाविशिष्टा कवे: कृतिः, तर्कः केवलयुक्तिवादः, विक्षिप्यते विषयान्तरेषु प्रवर्तते । विक्षेपे कारणमाह, तैरिति । तैर्वाणिज्यादिभिस्तत्त्वस्मृत्यसंभवात् । स्पष्टमन्यत् ॥ १२४ ॥
ननु विक्षेपविस्मृतिकारकत्वात् कृष्यादेस्त्याज्यत्वे भोजनादेरपि तथात्वात्तस्यापि त्याज्यत्वापत्तिरेवेत्याशंक्याह, अन्विति ।
अनुसंदधतैवात्र भोजनादौ प्रवर्तितुम् । |
आत्मानमनुसंदधता भोजनादौ प्रवर्तितुं शक्यते । कुतः ? अत्यन्तविक्षेपाभावात् कृष्यादाविव भोजनादावतीव चित्तभ्रमस्याभावात् । तत्र कारणमाह, आश्विति । आशु द्रुततरं पूर्वाभ्यस्तविषयिकायाः स्मृतेस्संस्कारजन्यज्ञानस्यागमनात्। भोजनादीनां ब्रह्मज्ञानविरोधिप्रयत्नानपेक्षत्वादिति भावः ॥ १२५ ॥
तदानीं विक्षेपाभावेऽप्याशु पुनः स्मृतेरिति भवदुक्त्या तदानीं तात्कालिक विस्मृतिः स्यादित्युक्तम् । तथा च तत एव पुरुषार्थहानिः स्यादित्यत आह, तत्त्वेति ।
तत्वविस्मृतिमात्रान्नानर्थः किं तु विपर्ययात् । |
भोजनादौ तत्त्वविस्तृतिमात्रादनर्थः पुरुषार्थहानिर्नभवति,किंतु विपर्ययात्