पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
[तृप्तिदीप
पञ्चदशी

 सत्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मस्वलक्षणमुक्त्वा गुहाहितत्वेन प्रत्यग्रूपेणाव- स्थितत्वेन “यो वेद निहितं गुहाया" (तै. २. ११) मिति कोशेषु पंचस्वेतद्ब्रह्म श्रुत्या प्रदर्शितम् । एवं च गुहाहितेनैव प्रत्यग्रूपत्वमभिहितमिति तदभेदोऽभिहित- प्राय एवेति भावः ॥ ६६ ॥

 परोक्षेणावगतस्य ब्रह्मणोऽपरोक्षतया साक्षात्कारसाध्यतां भृगूदाहरणेन प्रदर्श्य तामेव छांदोग्येनापि निदर्शयति, पारोक्ष्येणेति ।

पारोक्ष्येण विबुध्येन्द्रो य आत्मेत्यादिलक्षणात् ।
अपरोक्षीकर्तुमिच्छंश्चतुर्वारं गुरुं ययौ ॥ ६७ ॥

 इन्द्रो “य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोक" (छां. ८.७. १.) इति श्रुतिप्रतिपादितादात्मलक्षणादात्मानं पारोक्ष्येण प्रजापतेर्विबुध्य ज्ञात्वा अपरोक्षीकर्तुमपरोक्षत्वेन ज्ञातुमिच्छन् तद्विज्ञानार्थं समित्पाणिः प्रजापतिसकाशम् चतुर्वारं ययौ । छांदोग्यगतेन्द्रवैरोचनिगाधात्रानुसंधेया (छाम्. ८. १२. ३) ॥ ६७॥

 एवमेव परोक्षज्ञानस्यापरोक्षज्ञानोपकारकत्वमैतरेयगतमहावाक्येन द्रढयति, आत्मेति ।

आत्मा वा इदमित्यादौ परोक्षं ब्रह्म लक्षितम्।
अध्यारोपापवादाभ्यां प्रज्ञानं ब्रह्म दर्शितम् ॥ ६८॥

 ऐतरेयोपनिषद्यात्मा वा इदमित्यादौ “आत्मा वा इदमेकमेवाग्र आसीन्नान्यत् किं च न मिषत् ” (ऐत. १.१.१) इति परोक्षं ब्रह्म लक्षितं ज्ञापितम् । अध्यारोपापवादाभ्यां अध्यारोपो यस्मिन् यो धर्मो न विद्यते तस्मिन् तद्धर्मस्यारो पणम् , अपवादोऽपोद्यतेऽपवाह्यते मिथ्यात्वेनानेनेत्यपवादः,मिथ्यात्वेन निरासः, ताभ्यां, “स ईक्षत लोकान्नु सृजै"इत्युपक्रम्य, “तत्रावसधास्त्रयः"इति (ऐ.३.१२)परमात्मनि जगदध्यारोपणप्रकारमभिधाय “स जातो, भूतान्यभिवैख्यत्, किमि हान्यं वावदिषत्"(१. ३. १३.) इत्यनेनारोपितस्य जगतोऽपवादमभिधाय “स एतमेव पुरुषं ब्रह्म ततमपश्यदितीदमदर्शमिती"ति, प्रत्यगात्मनो ब्रह्मस्वरूपत्वमभिदधौ। ‘पुरुषे ह वा" इत्यादिना ज्ञानजनकवैराग्यसंपादनाय गर्भवासादिदुःखं. प्रदर्श्य