सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२६५
कल्याणपीयूषव्याख्यासमेता

गृहीत्वा ज्ञात्वा अथान्नमयादिकोशपंचकविचारात् व्यक्तिं प्रत्यगात्माभिन्नं ब्रह्मैक्षत अपरोक्षेण साक्षात्कृतवान् ॥ ६३॥

 ननु दशमदृष्टान्ते दशमस्त्वमसीत्याप्तवाक्येनाहमेव दशम इत्यपरोक्ष- ज्ञानं सिध्यति । तथा त्वं ब्रह्मासीति भृगुर्नोपदिष्टः । एवं सति ब्रह्मणो जग जन्मादिकारणत्वज्ञानेन कथमपरोक्षसाक्षात्कार इत्यत आह, यदीति ।

यद्यपि त्वमसीत्यत्र वाक्यं नो चेद् भृगोः पिता ।
तथाप्यन्नं प्रणमिति विचार्यस्थलमुक्तवान् ॥ ६४ ॥

 यद्यपि अत्रोपदेशस्थले त्वं ब्रह्मासीति वाक्यं पिता वरुणो भृगोर्नोचे । तथाप्यन्नं प्राणमिति अन्नम् प्राणं चक्षुः श्रोत्रं मनो वाचमिति जगज्जन्मादिकारणस्य ब्रह्मणो विचार्यस्थलमुक्तवान् । ब्रह्मसाक्षात्काराय विचरस्यावश्यकत्वादन्नमयादि पंचकोशान् विचारस्थलमुपदिदेश । विचारे कृते सति ब्रह्म साक्षात्क्रियत इति भावः ॥ ६४ ॥

 ननु पंचकोशविचारणेन प्रत्यगात्मसाक्षात्कारोऽस्तु नाम । कथं ब्रह्म- साक्षात्कारः संपद्यते ? इत्याशंक्याह, अन्नेति ।

अन्नप्राणादिकोशेषु सुविचार्य पुनः पुनः ।।
आनंदव्यक्तिमीक्षित्वा ब्रह्मलक्ष्माप्ययूयुजत् ॥६५॥

 अन्नप्राणादिकोशेषु पुनः पुनः सुविचार्य जडत्वलयत्वादिदोषपरिज्ञानेन तेष्वनात्मत्वं विनिश्चित्य आनंदव्यक्तिमीक्षिात्वा आनंदो ब्रह्मेति ज्ञानेन तत्साक्षात्कृत्य “आनंदाद्ध्येव खल्विमानि भूतानि जायन्ते” (तै.३.६.)इत्यादि ब्रह्मलक्ष्मापि प्रत्यगात्मन्ययूयुजत् संयोजितवान् ॥ ६५ ॥

 नन्वानंदात्मरूपेण ब्रह्माणं प्रतीचि योजयितुं न शक्यम् , ब्रह्मणस्तटस्थत्वेन प्रतीचो भिन्नत्वादित्यत आह, सत्यमिति ।

सत्यम् ज्ञानमनन्तं चेत्येवं ब्रह्मस्वलक्षणम् ।
उक्त्वा गुहाहितत्वेन कोशेष्वेतत्प्रदर्शितम् ॥ ६६ ॥

34