पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२५९
कल्याणपीयूषव्याख्यासमेता

 जीवगे जीवगतेऽपरोक्षज्ञानशोकनिवृत्त्याख्ये अपरोक्षज्ञानं ब्रह्माहमस्मीति साक्षात्कारः शोकस्य कर्वृत्वादिलक्षणन्य संसारस्य निवृत्तिश्चेत्याख्ये इमे उभे अवस्थे आत्मानं चेदितिश्रुतिर्ब्रूते। जीवनिष्ठावस्थासप्तके प्रधानफलभूते ब्रह्मपरोक्षज्ञान- शोकावगमे जीवगतेऽवस्थे श्रुतिर्ब्रूते । वाच्यवृत्या वक्ति । एवं व श्रुतिप्रतिपादि तावस्थाद्वयपरिज्ञानाय तद्धेतुभूताः अन्याप्यावस्था अपेक्षिता इति तन्निरूपणं नाप्रसक्तमिति भावः ॥४८॥

परोक्षज्ञानस्य प्रमात्वनिश्चयः ।

 नन्वयमस्मीति पूरुष इत्यत्रोपरिष्टादमित्यपरोक्षत्वमुच्यते चेत्तदु च्यता मित्ययंशब्देन बोधितमात्मनोऽपरोक्षत्वमिष्टापत्याऽङ्गीकृतम् । तथा सत्यपरोक्षज्ञानाविषयत्वमेव स्यान्न परोक्षज्ञानविषयत्वमित्याशंक्याह,अयमिति ।

अयमत्यपरोक्षत्वमुक्तं तद्विविधं भवेत् ।
विषयस्वप्रकाशत्वाद्धियाप्येवम् तदीक्षणात् ॥ ४९ ॥

 “अयमस्मीति पूरुष” इत्यत्रायमिति शब्दस्य यदपरोक्षत्वमपरोक्षार्थबोधकत्वमुक्तं तत् ज्ञानस्य परोक्षत्वापरोक्षत्वभेदेन द्विविधं भवेत् । एकं विषयस्वप्रका शत्वाद्विषयस्यात्मनः स्वप्रकाशत्वात् स्वस्य भाने प्रकाशकान्तरानपेक्षत्वात् । द्वितीयमाह। धियेति । एवं स्वप्रकाशत्वेन धिया तदीक्षणात् तस्यात्मनो दर्शनात्। प्रकाशान्तरानपेक्षप्रकाशत्वमपरोक्षत्वं । प्रकाशन्तरापेक्षप्रकाशत्वम् परोक्षत्वं । आत्मा स्वप्रकाशत्वेन स्फुरन्नपरोक्षज्ञानविषयो भवति। धिया स्वप्रकाशत्वेन ज्ञायत इति परोक्षज्ञानविषयोऽपीति द्वैविध्यमपरोक्षत्वस्येति भावः ।। ४९॥

 स्वप्रकाशत्वपरोक्षज्ञानविषयत्वयोर्विरोधादेकत्रानवस्थानादुक्तं द्वैविध्यं कथं घटत इत्याशंक्य तयोरविरोधं दर्शयति, परोक्षेति ।

परोक्षज्ञानकालेऽपि विषयस्वप्रकाशता ।
समा ब्रह्म स्वप्रकाशमस्तीत्येवं विबोधनात् ॥ ५० ॥

 यथा अपरोक्षज्ञानकाले तथा परोक्षज्ञानकालेऽपि विषयस्वप्रकाशता विषयस्य ब्रह्मणः स्वप्रकाशता समा । अतो न विरोधः । अस्तीतिनिर्णायकमनुभवं