ननु ज्ञानद्वयेन न भाति नास्तीत्याकारकद्विविधावृतेर्नाश इत्युक्तम् । तत्र केन कस्य नाश इत्याशंकायामाह, परोक्ष इति ।
परोक्षज्ञानतो नश्येदसत्त्वावृतिहेतुता । |
असत्त्वावृतिहेतुता नास्ति कूटस्थ इत्याकारका या आवृतिस्तस्या अज्ञान निष्ठा कारणता । अभानावृतिहेतुता न भाति कूटस्थ इत्याकारकाभानावृतेर्हेतुता। स्पष्टमन्यत् ॥ ४५ ॥
एवंरूपज्ञानस्य प्रथमं फलं संसारनिवृत्तिरित्याह, आभानेति ।
अभानावरणे नष्टे जीवत्वारोपसंक्षयात् । |
जीवत्वारोपसंक्षयात् कूटस्थे तादात्म्येन जीवभावस्य भ्रान्तिकृतो योऽध्यास स्तस्य सम्यङ्नाशात्। स्पष्टमन्यत् ।आभानावरण- नाशोक्तेरर्थादसत्वावरणनाशोप्युक्तो भवति । तन्नाशाभावेऽभानावरणनाशस्यासंभवात् ॥ ४६॥
शोकनिवृत्त्यनन्तरं तृप्तिरूपं द्वितीयं फलं प्रदर्शयति, निवृत्त इति ।
निवृत्ते सर्वसंसारे नित्यमुक्तित्वभासनात् । |
नित्यमुक्तित्वभासनात् असंगचिद्रूपत्वस्य प्रतीयमानत्वात् । निरंकुशा निरवधिः। निरंकुशत्वे कारणमाह,पुनरितेि ॥ ४७॥
नन्वात्मानं चेद्विजानीयादिति प्रकरणारंभे प्रतिज्ञाते श्रुत्यर्थव्याख्यान प्रकरणे जीवस्य सप्तावस्थाविवरणमप्रसक्तमित्याशंक्य तस्य तत्तात्पर्यनिरूपणो पयोगितया प्रसक्तत्वमित्याह, अपरोक्षेति ।
अपरोक्षज्ञानशोकनिवृत्त्याख्ये उभे इमे । |