पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्॥६॥]
१६५
कल्याणपीयूषव्याख्यासमेता


 विज्ञानमयतोऽन्यस्तस्मादान्तर सूक्ष्मतर आनंदमय आत्माऽस्तीत्येवोप लब्धव्यः। ब्रह्मणो व्यवहाराततीकल्पितां नास्तित्वबुद्धिमपहायास्तित्वमात्रबुद्ध्या साक्षात्कार्य इति वैदिकदर्शनम् वेदार्थतत्वप्रदर्शकं शास्त्रमित्यर्थः । "तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्माऽऽनन्दमयः" (तै. २. ५) “अस्ति ब्रह्मेति चेद्वेद संतमेनं ततो विदु" (तै. २.६.) रित्यादिश्रुतिभ्यः ॥ ७७॥

आत्मपरिमाणविषये विविधमतविचारः।

 एवमात्मनोऽस्तित्वं प्रदर्श्य तस्य परिमाणविषये वादिविप्रतिपत्तीर्दर्शयति, अणुरिति ।

अणुर्महान् मध्यमो वेत्येवं तत्रापि वादिनः।
बहुधा विवदन्ते हि श्रुतियुक्तिसमाश्रयात् ॥ ७८ ॥

 तत्राप्यामपरिमाणविषयेऽपि अणुरिति केचिन्महतनित्यन्ये मध्यमः मध्यमपरिमाण इत्यपरे वादिनो । दर्शनप्रदर्शकाः श्रुतियुक्तिसमाश्रयात् स्ववादो- पोद्बलकत्वेन श्रुतियुक्तोरालंब्येत्यर्थः, बहुधा विवदन्ते । “विभाषाविप्रलापे ”इत्यात्मनेपदम्॥ ७८ ॥

 तत्राणुत्ववादिनां मतमाह, अणुमिति ।

अणुं वदन्त्यान्तराळास्सूक्ष्मनाडीप्रचारतः ।
रोम्णः सहस्रभागेन तुल्यासु प्रचरत्ययम् ।। ७९ ॥

 अन्तराळाः सूक्ष्मनाडीप्रचारतः सूक्ष्मनाडीषु संचारादात्मानमणुमणुपरिमाणं वदन्ति। अयमात्मा रोम्णः सहस्रभागेन तुल्यासु सूक्ष्मतमास्विंत्यर्थः । नाडीषु प्रचरतीत्यतोऽणुपरिमाण इति भावः ॥७९॥

 अणुपरिमाणे श्रुतिं (श्वे. ३.२०.) प्रमाणयति, अणोरिति ।

अणोरणीयानेषोऽणुः सूक्ष्मात्सूक्ष्मतरं त्विति।
अणुत्वमाहुः श्रुतयः शतशोऽध सहस्रशः ।। ८० ॥