पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
[चित्रदीप
पञ्चदशी

विज्ञानं क्षणिकं नात्मा विद्युदभ्रनिमेषवत् ।
अन्यस्यानुपलब्धत्वाच्छून्यं माध्यमिका जगुः ॥ ७४ ॥

 विद्युदभ्रनिमेषवत् क्षणिकं क्षणस्थायि विज्ञानमात्मा न भवति । अन्यस्यात्मनोऽनुपलब्धत्वादप्राप्तस्यादात्मा शून्यमिति माध्यमिका जगुः ॥ ७४ ॥

 शून्यत्वे प्रमाणमाह, असदिति ।

असदेवेदमित्यादाविदमेव श्रुतं ततः ।
ज्ञानज्ञेयात्मकं सर्वं जगद्भ्रान्तिप्रकल्पितम् ॥ ७५॥

 असदेवेदमित्यादौ (छां.६.२.१.)वाक्यं इदं शून्यमेव श्रुतम् । तर्हि प्रतीयमानस्य जगतः का गतिरित्याशंकायामाह, तत इति । ततो ज्ञानज्ञेयात्मकं सर्वं जगत् भ्रान्तिप्रकल्पितम् । अत्र ४-३५ श्लोकव्याख्या समोक्षितव्या ॥ ७५॥

 सिद्धान्ती तन्मतं खंडयति, निरधिष्टानेति ।

निरधिष्ठानविभ्रान्तेरभावादात्मनोऽस्तिता ।
शून्यस्यापि ससाक्षित्वादन्यधा नोक्तिरस्य ते ॥ ७६ ॥

 निरधिष्ठानविभ्रान्तेः अधिष्ठानरहिताया विभ्रान्तेरभावात् रज्ज्वभावे सर्षप्रान्तेरिव लोकेऽनुपलम्भादधिष्ठानभूतस्यात्मनोऽस्तिता सिद्ध्यतीति शेषः । आत्मास्तित्वे कारणान्तरमाह, शून्यस्येति । शुनस्यापि ससाक्षित्वात् शून्यविषय- कज्ञानस्य शून्यवादिनाप्यधश्यमभ्युपगम्यत्वादित्यर्थः। तदेव च ज्ञानं साक्षिचैतन्य- मात्मरूपमित्यात्मास्तित्वं सिद्धमिति भावः । अन्यथा ज्ञानाभावेऽस्य शून्यस्योक्तिः शून्यमासीदिति व्यवहारस्ते शून्यवादिनो न सिद्ध्यति, शाब्दव्यवहारस्य ज्ञान - पूर्वकत्वात् ॥ ७६ ॥

 एवं बौद्धादिनास्तिकमतनिरसनानन्तरमास्तिकमतविवक्षयाऽऽत्मस्वरूप माह, अन्य इति ।

अन्यो विज्ञानमयत आनंदमय आन्तरः।
अस्तीत्येवोपलब्धव्य इति वैदिकदर्शनम् ॥ ७७ ॥