पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम् ।]
कल्याणपीयूषत्र्याख्यासमेता

 योगेन चित्तवृत्तिनिरोधेन कालिकबंधस्यैव निवृत्तिः नात्यन्तकी तन्निवृत्तिः; सा तु ब्रह्मज्ञानेनैव साध्या ; आत्यन्तिकवंधविमोक एव मोक्ष इत्य- स्माकमभिमतम्; ततो योगेन ब्रह्मज्ञानं नान्यथा सिद्धमित्याह, तात्कालिकेति ।

तात्कालिकद्वैतशांतावप्यागामिजनिक्षयः।
ब्रह्मज्ञानं विना न स्यादिति वेदान्तडिंडिमः ॥ ३९ ॥

 तात्कालिकद्वैतशांतौ यावत्कालं चित्तवृत्तिनिरोधस्तावत्कालं द्वैतनिवृत्तिरूपा मनःशान्तिरित्यर्थः, आगामिजनिक्षयः । आगामि योगविरामोत्तरकाले उत्पद्यमानो द्वैतरूपो यो बंधः तस्य क्षयो नाशः “ज्ञानादेव तु कैवल्यं “ “नान्यः पंथा विद्यतेऽयनाये” ( श्वेः ३.८.)त्यादिश्रुतयोऽन्वयव्यतिरेकाभ्यामत्यन्ताबाधितनिःश्रे- यसप्राप्तिहेतुत्वेन ब्रह्मज्ञानमेव मुक्तकंठमुपदिशन्तीति भावः ॥ ३९ ॥

 कूटस्थचैतन्यविवेकेन मानसिकप्रपंचस्य निवृत्तिः सिध्यतु; तथाप्यद्वितीयब्रह्मज्ञानं कथं सिध्यति ? भवदुक्तप्रणाळिकयेशस्पृष्टस्य बाह्यप्रपंचस्यानिवारणात् । तेन ब्रह्मणः सद्वयत्वाव्याघातात् । बाह्यद्वैतनिवारणमन्तरा मोक्षहेतु भूताद्वितीयब्रह्मज्ञानं नोदेतीति बाह्यं न वारयितुमीश्महे" (४.३७) इति साहसेन प्रतिज्ञायत इत्याशंकां परिहरति, अनिवृत्तइति ।

अनिवृत्तेऽपीशसृष्टे दैते तस्य मृषात्मताम् ।
बुद्ध्वा ब्रह्माद्वयं बोद्धुं शक्यं वस्त्वैक्यवादिनः ॥ ४०॥

 ईशसृष्टे मायाप्रतिबिंबितेश्वरकल्पिते नामरूपात्मके द्वैने प्रपंचेऽनिवृत्तेऽपि तस्य जगतो मृषात्मतां मिथ्यास्वरूयतां बुद्ध्वा ज्ञात्वा वस्त्वैक्यवादिनः सत्पदार्थ- स्यैकत्वमंगीकुर्वतोऽद्वयं ब्रह्म बोद्धुं शक्यं भवति ॥ ४० ॥

 ननु द्वैतमृषात्मज्ञानं नाद्वैतज्ञानप्रयोजकं, अपि तु तन्निवारणमेवेत्यभिनिविष्टं प्रत्याह, प्रलय इति ।

प्रलये तन्निवृत्तौ तु गुरुशास्त्राद्यभावतः।
विरोधिद्वैतभावेपि न शक्यं बोद्धुमद्वयम् ॥ ४१ ॥

15