पृष्ठम्:वेदान्तकल्पतरुः.pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१९-२०
 

गैगा न यन्ति । तपस्विनेो ऽप्यविद्वांसेो न यन्ति ये एतत्यञ्चाग्निरूपं विदुः ये चारण्ये स्थित्वा इमे वनस्यादय: श्रद्धां कृत्वा सत्यमवितथं परं ब्रह्मोपासते उभये ऽप्यर्चिरादिमार्ग प्रामुवन्तीति शेषः । एते यन्याने दक्षिणेन्नरौ ये न विटुरेतत्प्रासिाधनं नानुतिष्ठन्तीत्यर्थः । ते कीटादयेो भवन्ति कौटा गेोमया दिसंभवा । पतङ्गाः शलभाः । दन्दशूकः सपे:* ॥

६३६ । ६
यावदधिकारमवस्यितिराधिकारिकाणाम् ॥ ३२ ॥

निर्गुणविद्यायां गतिं प्रतिषिद्धः सगुणविद्यायां गतिप्रयाजकैश्वर्यवि शेषदर्शनाङ्गतिरथैवर्तीत्युक्तम् । सगुणासु च गते: सार्वचिकत्वं वर्णितम् । इदानां निर्गुणविद्याया अपि मेोदहेतुत्वाऽनुपपत्तेरैश्वर्यफलत्वं वक्तव्यम् ऐश्वर्यविशेषश्च न गतिमन्तरेणेति सगुणास्विति विशेषणं च व्यर्थमित्य भिहितव्यवस्थादेतेपेण प्रत्यवस्यीयते । तचापरितनकतिपयाधिकरणानां ता त्यर्यमाह सगुणायामिति । अपुनरावृत्तिहति । पुनर्देहानुयादानमि त्यर्थः । ननु पुनद्वैहाऽनुपादानं नाएवर्ग: किं त्विदानीं प्रवृत्तफलकर्मज न्यभाविदेहसंबन्धाभावः । वसिष्ठादीनां च सा ऽस्तीति कथं नापवर्ग इंत्याशङ्काह न च ने । भाविदेहस्य सर्वस्याप्रवृत्तफलकर्मज न्यत्वाद्वसिष्ठादये। यदि देहान्तरं गृह्णीयुस्तह्मप्रवृत्तफलकर्मजन्यदेहत्वा न्मुक्ता न स्युरत्तश्च यदि प्रवृत्तफलं कर्ममाचं प्रतीतेरंस्तर्हि वसिष्ठादिदेह माचारम्भकं कर्म प्रतीदेतन्निति देहान्तरग्रहणानुपपत्तिरित्यर्थः । यच्च वसि ष्टादीनां प्रारब्थकर्मप्रतीतायामस्मदादिविद्वत्रिदर्शनं तदप्यसिटुमित्याह न च तावदिति । विद्याकर्मणाः सुष्ठुनुष्ठानं विद्याकर्मस्वनुष्ठानम् । प्रतिबन्धाऽपगमे गुरुत्वं न न हेतुरपि तु हेतुरेवेत्यर्थः । सेतुभेदेन हेतुना ऽपि निन्नदेश मापा नाभिसर्पन्तीति नाऽपि तु अभिसर्पन्त्येवेत्यर्थः । श्रावर्जिते वर्शी ७ । २२ कृत्त: । धियते प्रतिबद्धते । प्रारब्थमधिकारलक्षणं फलं याभ्यां विद्या कर्मभ्यां ते प्रारब्धाधिकारलक्षणफले विद्याकर्मणी इत्येकेो बहुत्रीहिः तादृशे विद्याकर्मणी यस्य स प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुष इत्यपरः ।


अत्र अष्टाठशाम् अनियमाधिकरणं पूर्णम् । तच मूत्रम् १ -ग्रनियमः सर्वासामधि