पृष्ठम्:वेदान्तकल्पतरुः.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२५
श्रुतिलिङ्गादिबलाबलविचार: ।

चारे ऽत्त: कांस्यभेजिन्यायेन हृदयपदमित्तरपटानुरोधेनाभिचारमेव मन्त्रं गमयतीत्यर्थः । यत्वेकपदसमवेत्ताथैत्ताया अस्ति संनिधिरनग्राहकप्त इति । तन्न । बहुपदसमवेत्ताथैत्ताया: सन्निथेरपि प्रचलेनन वाक्येनानुगृहीतत्वादित्याह इतरपदैकवाक्यतापन्नस्येति । इतरपदैकवाक्यत्पन्नस्याऽत्त एव वाक्य- ६१३ । ४ प्रमाणानुगृहीत्तस्याऽभिचारे ऽपि समवेत्तार्थस्य हृदयपदस्याभिचारात्कर्मणे ऽन्यच संनिधिना चालयितुमशक्यत्वादिति येाजना । यत्तु वाक्यलिङ्गाभ्या मन्यच विनियुक्तयेरपि मन्त्रकर्मणा: संनिधानाद्विद्यायामयि तदविरोयेन विनियेगसंभवाटुभयार्थत्वमित्युक्त तदनूद्य परिहरति कस्मात्पुनरित्या दिना । श्रुतिलिङ्गयेरिति । यच ह्येक एव शेष एकेन प्रमाणेनैकशेषिण। संबद्धत्वेन बेधित: स एव प्रमाणान्तरेण शेप्यन्तरार्थत्वेन वाध्यते । तचै केनैव संबन्धे शेषस्य निराकाङ्गत्वादपरसंबन्धो विरुध्यते । तदनये: प्रमा न्धबेोधिनेना: प्रमाणायेार्बाध्यबाधकत्वे स्यिते त्वदर्थे किं बलीय इति चिन्ता क्रियते ग्रतिलिङ्गसूचेणेत्यर्थः । अत एव विनियुक्तविनियेागे ऽपि वैषम्य मुक्तम् । तच हि तुल्यबलत्वात्प्रमाणयेारुभयार्थत्वमिति ।

ननु नेदं श्रुतिलिङ्गविरोधादाहरणम् । तथा हिँ । क्रिमैन्ट्रा गाई पत्यमिति द्वितीयावृत्तीयाश्रुत्या: पदान्तराऽनपेक्षयेार्मन्त्रगतेन्टप्रकाशनसा मथ्येन विरोध उच्यते किं वा पदान्तरैकवाक्यत्तापन्नये: । प्रथ्यमकल्याऽनु पयतिमाशङ्कते यद्यपीति । द्वितीया हि गार्हपत्यः किं चित्प्रतिशेर्पति वक्ति तच्च कां चिदाग्नीमृचं प्रति शेषित्वे ऽपि चरितार्यमिति नेन्द्र इन्द्रप्रकाशनसामथ्र्य बाधेत ऐन्द्रोति च तृतीयैन्टा: किं वित्प्रति शेषत्व माह तच त्तस्या इन्द्रं प्रति शेषत्वे ऽप्यविरुटुमित्यर्थः । द्वितीयक्रल्यानुपप तिमाशङ्कते पद्मान्तरेति । वाक्यलिङ्गयेलेिङ्गस्य बलवन्वाद्वाक्यस्येव बाधा स्यादित्यर्थ: । परिहरति तथापीति । श्रुत्येरेव निङ्गेन विरोध इति वतुं श्रुतिवाक्ययेरभिधेयभेदमाह द्वितीयेत्यादिना । ऐन्द्रोति तृतीयया क्रियायामैन्ट्री शेषत्वेन बेधित्ता । गार्हपत्यमिति द्वितीया


वस्त्र कल्पनानुपपतिमित्ति पाठ: २ पुः ।