अश्वत्थामा---हा तात ! हा सुतवत्सल ! हा वृथा मदर्थपरित्यक्तजीवित ! हा शौर्यराशे ! हा शिष्यप्रिय ! हा युधिष्ठिरपक्षपातिन् ! । ( इति रोदिति ।)
सूतः--कुमार ! अलमत्यन्तपरिदेवनकार्पण्येन ।
अश्वत्थामा--
श्रुत्वा वधं मम मृषा सुतवत्सलेन |
( इति मोहमुपगतः ।)
सूतः--समाश्वसितु समाश्वसितु कुमारः ।
( ततः प्रविशति कृपः । )
कृपः--( सोद्वेगं निश्वस्य । )
धिक्सानुजं कुरुपतिं धिगजातशत्रुं |
तत्कथं नु खलु वत्समद्य द्रक्ष्याम्यश्वत्थामानम् । अथवा हिमवत्सारगुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किं तु पितुः परिभवमसदृशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथवा
एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते । |
( विलोक्य । )तदयं वत्सस्तिष्ठति । यावदुपसर्पामि । ( उपसृत्य ससंभ्रमम् ।) वत्स ! समाश्वसिहि समाश्वसिहि ।
अश्वत्थामा--( संज्ञां लब्ध्वा । सास्रम् । ) हा तात ! हा सकलभुवनैकगुणे ! ( आकाशे ) युधिष्ठिर ! युधिष्ठिर !
आजन्मनो न वितथं भवता किलोक्तं |