पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
वेणीसंहारे

 सूतः--कुमार ! अलमत्यन्तशोकावेगेन । वीरपुरुषोचितां विपत्तिमुपगते पितरि त्वमपि तदनुरूपेणैव वीर्येण शोकसागरमुत्तीर्य सुखी भव ।

 अश्वत्थामा--( अश्रूणि विमुच्य । )आर्य ! कथय कथय, कथं तादृग्भुजवीर्यसागरस्तातोऽपि नामास्तमुपगतः ?।

  किं भीमाद्गुरुदक्षिणां गुरुमदां भीमप्रियः प्राप्तवान् ? ।

 सूतः--शान्तं पापम् ।

 अश्वत्थामा--

  अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना ? ।

 सूतः--कथमेवं भविष्यति ? ।

 अश्वत्थामा--

  गोविन्देन सुदर्शनस्य निशितं धारापथं प्रापितः ? ।

 सूतः--एतदपि नास्ति ।

 अश्वत्थामा--

  शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहम् ॥ ९ ॥

 सूतः--कुमार !

एतेऽपि तस्य कुपितस्य महास्त्रपाणेः
 किं धूर्जटेरिव तुलामुपयान्ति संख्ये ? ॥
शाकोपरुद्धहृदयेन यदा तु शस्त्रं
 त्यक्तं तदास्य विहितं निपुणातिघोरम् ॥ १० ॥

 अश्वत्थामा--किं पुनः कारणं शोकस्यास्त्रपरित्यागस्य वा ? ।

 सूतः--ननु कुमार एव कारणम् ।

 अश्वत्थामा--कथमहमेव ? ।

 सूतः--श्रूयताम् । ( अश्रूणि विमुच्य । )

अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा
 स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा ।
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः ।
 शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥ १३ ॥