पृष्ठम्:वेणीसंहारम् (आङ्गलटिप्पणीसहितम्).pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
द्वितीयोऽङ्कः ।

राजा--आः ! ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः ? । पश्य ।

 कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटोन्मुक्तदेहै:
  श्लिष्टान्योन्यातपत्रैः सितकमलवनभ्रान्तिमुत्पादयद्भिः ।
 रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराणां बलाना-
  माक्रान्ता भ्रातृभिर्मे दिशि दिशि समरे कोटयः संपतन्ति ॥ २७ ॥

अपि च भानुमति । विज्ञातपाण्डवप्रभावे ! किं त्वमप्येवमाशङ्कसे ? । पश्य ।

  दुःशासनस्य हृदयक्षतजाम्बुपाने ।
   दुर्योधनस्य च यथा गदयोरुभङ्गे ।
  तेजस्विनां समरमूर्धनि पाण्डवानां ।
   ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा ॥ २८ ॥

कः कोत्र भोः ? । जैत्रं मे रथमुपकल्पय तावत् । यावदहमपि तस्य प्रगल्भपाण्डवस्य जयद्रथपरिरक्षणेनैव मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदिशामि ।

( प्रविश्य )

 कञ्चुकी--देव !

  उद्धातक्वणितविलोलहेमघण्टः
   प्रालम्बद्विगुणितचामरप्रहासः ।
  सज्जोऽयं नियमितवल्गुवल्गिताश्वः
   शत्रूणां क्षपितमनोरथो रथस्ते ॥ २९ ॥

 राजा--देवि ! प्रविश त्वमभ्यन्तरमेव । ('यावदहमपि तस्य प्रगल्भपाण्डवस्य ' इत्यादि पठन्परिक्रामति ।)

( इति निष्क्रान्ताः सर्वे ।)

इति द्वितीयोऽङ्कः ।