अम्ब ! कृतं विषादेन । वत्से दुःशले ! अलमश्रुपातेन । कुतश्चायं तस्य धनंजयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्तिमुत्पादयितुम् ।
माता--जाद ! ते हि पुत्तबन्धुवहामरिसुंद्दीविदकोवाणला अणपेक्खिदसरीरा वीरा परिक्कामन्ति । ( जात ! ते हि पुत्रबन्धुवधामर्षोद्दीपितकोपानला अनपेक्षितशरीरा वीराः परिक्रामन्ति ।)
राजा--( सोपहासम् । ) एवमेतत् । सर्वजनप्रसिद्धैवामर्षिता पाण्डवानाम् । पश्य ।
हस्ताकृष्टविलोलकेशवसना दुःशासनेनाज्ञया |
माता--असमत्तप्पडिण्णाभारस्स अप्पवहो से प्पडिण्णादो । ( असमाप्तप्रतिज्ञाभारेणात्मवधोऽनेन प्रतिज्ञातः ।)
राजा--यद्येवमलमानन्दस्थानेऽपि ते विषादेन । ननु वक्तव्यमुत्सन्नः सानुजो युधिष्ठिर इति । मातः ! का शक्तिरस्ति धनंजयस्यान्यस्य वा कुरुशतपरिवारवर्धितमहिम्नः कृपकर्णद्रोणाश्वत्थामादिमहारथपराक्रमद्विगुणीकृतनिरावरणविक्रमस्य नामापि ग्रहीतुं ते तनयस्य ? । अयि सुतपराक्रमानभिज्ञे !
धर्मात्मजं प्रति यमौ च कथैव नास्ति । |
भानुमती--अज्जउत्त ! जइवि एव्वं तहवि गुरुकिदप्पडिण्णाभारो ट्ठाणं क्खु सङ्काए ।( आर्यपुत्र ! यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभारः स्थानं खलु शङ्कायाः ।)
माता--साहु ! कालोइदं भणिदं भाणुमदीए । ( साधु ! कालोचितं भणितं भानुमत्या ।)