सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 43 ) स्त्रिकृतचतुर्मतसामरस्यग्रन्थविमर्शनपरः पञ्चमोऽपि। अद्वैतिनः अन्ये च विद्वांसः इमं ग्रन्थं अनुबन्धांश्च मध्यस्थदृष्टाऽवलोक्य गुणान् दोषान् वा यदि वदेयुः तदस्माकं महते आनन्दाय कल्पेत । अस्मद्गृहे अबतरराशिरिति बहिः प्रासनाय गृहीते जीर्णमलिनका कबन्धे यदृच्छया एकं पत्रं हषिगोनरमगाम्, यत्र स्थितमिदम् श्रः श्रीश्रीनिवासपरब्रह्मणे नमः । श्रीमते निगमान्तमहादेशिकाय नमः । ऐश्वर्यसिद्धिः तमप्यवति यः प्रीत्या यश्छिनत्ति स्वमाग्रहात् । सर्वसिद्धयै मम श्रीमान् कल्पवृक्षः स कल्पताम् । श्रवाससूरचरणाम्बुजशेखरस्य धन्यानि कानिचिदहानि मम व्यतीयुः । स्वान्तेऽभि वाऽद्य दयया स न चेदभास्यन् किं जीवितस्य फलमस्य बताभविष्यत् । ऐश्वर्यमैश्वरमपारमशेषमान- सिद्धं यस्ति तदपहुवतेऽतियत्नात् । वस्त्राहुरस्तमितसवंगुणं च किञ्जित् । तन्नोपपद्यत इति । प्रतिपाद्यामः । हृदि यन्त्र इव स्थितो ममायं प्रकटत्वं गमितो निमित्तयोगात् । कवितार्किकसिंहनाद एव श्रवणं सम्प्रति वादिनामुपैति ॥