सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 42 ) प्रकाशितत्वात् वाद्यमाना बंशी यत्र बभौ तं अधरमनुभवति–अरुण बिम्बफलाधरोष्ठादिति । अथ कृत्स्नमुखमण्डलानुभवः-पूर्णेन्दुसुन्दर- मुखादिति । इस्थमेकाग्रतया स्वसौन्दर्यमनुभवन्तं भक्तं भगवान् कृष्णः अनुकम्पासरिदम्बुजैरपात्रैरनुगृह्वाति । तद्यजयति--अर विन्दनत्रात । एवं हितशब्दवाच्या भक्तिर्यञ्जिता । अनन्यप्रयोजनाया भक्तेः 'ब्रह्मविदाप्नोति परम’ मद्भक्ता यान्ति मामपि’ इति श्रुतिस्मृतिप्रमितायाः परतत्त्वरूपभगवत्प्राप्तेरेव फलत्वात् परमपुरुषार्थोऽपीह व्यजितः । इत्थं विलक्षणानामेव तव हतपुरुषार्थानामभ्युपगमात् अहृदयनिष्ठेवावैते सिद्धिकारस्य। पूर्वकाण्डदेवताधिकरणान्ते इति जैमिनिमतनिष्कर्षः। मम त्वेवं वदतोऽपि वाणी दुष्यतीति हरिस्मरणमेव शरणम् । इति वदतो महमीमांसकस्य खण्डदेवस्य या पारमार्थिकी मनोवृत्तिः सैवात्र मधुसूदनसरस्वत्या इति सुस्पष्टमेतत् । आत्मबङ्गनप्रावण्यवरहे एवमेव अद्यतना अपि सर्वे अद्वैतिनो भवितुमर्हन्ति । दैति प्रन्थोक्तसर्वानुपपत्तिपरिहारपरो भवन् सिद्धिकारः महान्तं ग्रन्थविस्तरं कृतवान् । वयं तु अनेन कृताः तत्परिहाराः साधवोऽन्यथा वेति चिमरौ दृष्टमकुर्वन्तः अद्वैतसिद्धये तेन यदुक्तं तत्र विशिष्टाद्वैत- सिद्धये यत् प्रतिवक्तव्यं तत्पर्यालोचनमात्रमुद्दिश्य विशिष्टाद्वैतसिद्धि ग्रन्थमिममलिखाम । विशिष्टाद्वैतप्रवर्तकान् पूर्वाचार्यान् प्रति द्वेषे तेषां कुत्सने च इतर सर्वातिशायिना कठिनकुटिलतरहृदयेन पोलकं श्रीरामशास्त्रिणा कृतं द्रमिडायदर्शनं, तत्रत्यः उपोद्धातः, इजिक्कोल्नै जगदीश्वरशास्त्रिणः कुती चिचिदशरीरकब्रह्मसिद्धिः, सप्तविधानुपपत्तिपरीक्षा चेति एषां चतुणाँ प्रत्याख्यानपराः चत्वारोऽनुबन्धाः अन्ते योजिताः। श्रीरामशा