सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= ] अनुबन्धः सकाशे चिरं विद्यार्थिभावं गतः श्रीरामानुजः अनेन, शङ्करभास्कराभ्यां च कृतैः वेदान्तवाक्यार्थविवरणैः अत्यन्तमतृतः विषण्णः दैवात् भगवद्यामुनमुनिशिष्यमहापूर्णसेवासमधिगतप्राचीनसम्प्रदायार्थः परम- सन्तुष्टः न परं बहुसहस्रसङ्ङ्ख्येभ्यः शिष्येभ्य उपदेशेन अपितु श्रीभा- ब्यादिग्रन्थप्ररणय नेनापि चिरन्तनं त्रय्यन्तसिद्धान्तं लोके पुनः प्रवर्तया मास । एषां ग्रन्थानां विशेषमित्थं वरणयन्ति श्रीदेशिकचरणाः- लक्ष्यं बुद्धेर्ललितरसनालास्यलीलानिदानं शुद्धास्वादं किमपि जगति श्रोत्रदिव्यौषधं नः । लक्ष्यालक्ष्यैः स्थिरजलधिवद् भाति तात्पर्यरत्नै- र्लक्ष्मीकान्तस्फटिकमुकुरो लक्ष्मणार्योपदेशः ।। आकर्षण निगमान्तसरस्वतीना- - ४०७. मुच्चाटनानि बहिरन्तरुपलानाम् । पथ्यानि घोरभवसञ्ज्वरपीडितानां हृद्यानि भान्ति यतिराजमुनेर्वचांसि || इति । एवमुपनिषदां तात्त्विकोऽर्थः सर्वलोकवद्यः कृतः। अस्य खण्डन- मशक्यम् । नहि सूर्ये सूर्यत्ववादः खण्ड्यत इत्यस्ति सभ्भवः | वस्तु-- तत्रे एवं स्थिते असूयादुष्पिशाचीग्रहपरवशः शास्त्री उच्चावचं जल्पति । ८६ उन्मत्तोक्ती नामनुन्मत्तैरुत्तरं न देयम् । तथापि शास्त्रिणः उम्मत्ततामजानन्तः केचिन्मा भ्रमिषुरिति अवश्यवक्तव्यमुच्यते । यामु- चप्रभृतीनां श्रीमद्वेङ्कटनाथस्य च अपारा भक्तिः श्रीमन्नाथमुनौ । वेदान्तगुरुपरम्परायां प्रथमत्वात् । यद्यपि ततः पूर्वं शठकोपसूरिरस्ति । तथाऽपि तस्मिन् चिरात्पूर्व मुक्तिं गते श्रीमन्नाथमुनिः योगमहिम्ना तं साक्षास्कृत्य तदुपा॑दृष्टं औपनिषदं तत्त्वं विज्ञाय स्वशिष्यपरम्परया लोके प्रकाशयामास । यदि नायमेवमकरिष्यत् तर्हि लोके प्राचीन-