सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० विशिष्टाद्वैत सिद्धिः [ ६० स्वयं किमपि कल्पयेयुरिति स्थितम् । अन्ये तु नैवम् । तदिदं किञ्चिदत्र निदर्शनीचं प्राप्तं मन्यामहे । महोपनिषदि नारायणानुवाके स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् । इत्यस्मदीयः पाठः । अत्र सेन्द्र इत्यतः परं 'स हरिः' इति स्मार्तपाठोड. धिको दृश्यते । पूवंत्र नारायणं विष्णु परमात्मेत्यभिधाय तद्विभूति- भूतानां देवानामत्र निर्देशात् विभूतिमतः परमात्मनो विष्णोरिह ग्रहणे नास्त्यौचित्यम् । अपि च अनुष्टुप्छन्दोबद्धोऽयं मन्त्रः । सोऽचि लोपे चेत् पादपूरणमिति पाणिनि सूत्रानुराधेन सुलोपं कृत्वा सेन्द्र इति संहि- तया अक्षरनियमोऽत्र रक्ष्यते । तस्मात् विष्णुपारम्यासहै: छन्दोभङ्ग- मध्यगणयित्वा धाष्टचद् वैदिक मन्त्रेऽपि स हरिरिति प्रक्षेपः कृत इति सुस्पष्ट पश्यामः । अथाग्येवं वदतोऽस्मान् प्रति ' भवद्भिरेव सहरिरित्य- स्योद्वापः कृतः' इति परे प्रत्यवतिष्ठेरन् । तैः - अत्र विष्णोरग्रहणेऽपि कैवल्योपनिषदि श्रयते - इत्यनुपपत्त्यधिकरणश्रीकण्ठभाष्यं, तत्रत्या नारायणानुवाके विष्णोरुगविभूति ( त्व/ विवक्षायामपि तदनभिधाननुपासकःवनिर्देशनैव तल्लाभात्' इति शिवार्कमणिदीपिका च यथावदवगन्तव्ये | दीक्षितादप्यर्वाचनैः कल्पितोऽयमावाप इति स्पष्टम् | न चात्र भाष्ये 'विष्णोरग्रहणेऽपी'त्यपि- श्रवणात् ग्रहणपक्षोऽप्यस्तीत्यभिप्रायो गम्यत इति शङ्कयम् । अत्र अग्र- हणेऽपि कैवल्योपनिषदि ग्रहणात् नारायणस्य परमेश्वरविभूतित्वं सिद्धच तीति प्रतिपादनेन अपेविरोधार्थत्वात् । पक्षान्तरसमुच्चयार्थत्वाभावा व्याख्यानग्रन्थे स्पष्टमेतत् । ६०. कथासरित्सागरविसंवादात् अर्वान्तसुन्दरीकथा न प्रमाण- मिति वदति । स्वतन्त्रनानाग्रन्थसंवादात् तत्त्वविषये इयमेव प्रमागतया ग्राह्या । कविप्रतिभाधीन कल्पनाविशेषवन्तः कथासरित्सागरायां