सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैत सिद्धिः द्वितीयः पृथसिद्धविशेष रूपांशवाचिना पदेन अंश विशेष्यस्या - प्यभिधानात् अभेदव्यपदेशोऽपि मुख्यः । तदेवमन्यथैवोपक्षीणत्वात् जीव- पराभेदे अंशत्यार्थापत्तिर्न प्रमाणमिति सिद्धम् । २५४ अथ विम्बप्रांतविम्वभावमाश्रित्य यज्जीवेश्वरैक्यं साधयितुमिष्यते तद्प मुधा | बिम्बप्रतिबिम्बभावासम्भवस्व विस्तरेणोपपादितत्वात् । बिम्बैक्यं प्रतिबिम्बस्य काममस्माभिरिष्यते । इप्यते किन्तु जीवस्य न ब्रह्मप्रतिबिम्बता || अनेन हेतुना तस्मादस्मान् प्रति न शक्यते । ऐक्यं प्रतिष्ठापयितुं जीवात्मपरमात्मनोः ॥ १८. अणुत्वम् अराम्नाय जीवो विभुश्च पुरुषः परः । शङ्काऽपि जायेत कथमेतयोरेकतां प्रति ॥ यत्तु ‘नित्यः सर्वगतः’ ‘स वा एष महानज अत्मा' इत्यादिभिर्वि- भुत्वावगमान्न त्वमिति तदेतेषां परमात्मविषयत्वान्निरम्तम् । अथ जीवो नाणुः, चत्वान् प्रत्यक्ष त्वच घटवत् | आत्मत्वात् अभूतत्वाच्च, ईश्वरबत् इत्यादिभिरनुमानैरनगुत्वसिद्धिरिति चेन्न । “भागो जीवः स विज्ञेयः” इत्यादिश्रुत्या बाधात् । जीवों न विभुः, क्रिया- वद्रव्यत्वात् घटवन् इति प्रत्यनुमानाञ्च । न चासिद्धिः । क्रियाव- ,

त्वस्य साधयिष्यमाणत्वान् | अप्रयोजकत्वाच्च । यत्तु देहव्यापिसुखाद्य- नुपलम्भापत्तिः प्रतिकूलतकं इति तत् धर्मभूतज्ञानव्याप्त्या उपपन्ना- न्निरस्तम् । गीतं हि भगवता - , "यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ! क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥" इति । यच्च 'वालाग्रशतभागस्य शतधा कल्पितस्य च' इत्यस्य व्यापकत्व 1