सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः जीवभेदः गोचरयतीति पूर्वमेवोक्तम् । अत्राह – “न चैवं स्वप्रागभावव्यतिरंक्तेत्यादौ का गतिरिति वाच्यम तत्राप्येतहष सञ्चारेण व्यतिरेकिरण वाऽनुमा- नान्तरे वा तात्पर्यात्” इति । एवं संरम्भेणातिमह्ता सावितं यन् तदेव चेत् | अवद्धमुच्यते पश्चात् कथ विश्वसनीयता ॥ न चाननुगम एव । अनुगमस्य सुकरत्वात् । यथा 6 ब्रह्म स्वज्ञानाबाध्य- जीवप्रतियोगिकभेदवत्, पदार्थत्वान् घटवत्" इत्यत्र जीवप्रतियोगिक- भेद वैशिष्ट्य साध्यम | वैशिष्ट्य च स्वायत्त्वज्ञान- भयसम्बन्धेन । अत्र स्वभेद अन्त्यः ब्रह्मपरः। सम्ब- न्धघटकश्च स्वशब्दः नानुगमविरोधीति विदन्ति तर्कनिपुणाः । अनु- मानान्तरेष्वप्येवं द्रष्टव्यम् । - यदुक्तं – "अप्रमेयेऽनुमानस्य प्रवृत्तिनं कथञ्चन | प्रमेयस्य त्वना- त्मत्वात् तत्र भेदानुमेप्यते ॥ शुद्धचैतन्ये धर्मानधिकरणतयाऽनुमाना- प्रसरः । यत्र प्रसरः तत्रेष्टापत्तिरित्यर्थः” । इति, मिथ्या गाम्भीर्यविज्- म्भितमेतत् । यद परमार्थोऽयं आदावेव हि एवमुक्त्वा दूषणादुपरतै- र्भाव्यम् । किञ्च - तदेवम् - अप्रमेयमसद्ववतु प्रमेयमनुमापदम् । तदसद्वेष्यतां ब्रह्म भिन्नं वा चेतनान्तरान् || सुप्रसिद्धविशेषत्वादन्यथानुपपत्तितः । सर्वशक्त्यल्पशक्त्यादेर्न भेदे तन्त्रता कुतः ॥ ११. जीवभेदः जीवाश्च परस्परं भिन्नाः स्थापना - चैत्रो मैत्राद् भिन्नः मैत्रा- नुसंहितदुःखाद्य-नुसन्धातृत्वात् । घटवत्, इति । इदं दूपयन्नाह 'उपहि- तस्य पक्षत्वेऽर्थान्तरात् | चैतन्यस्य पक्षत्त्रे हेत्वसिद्धेः । इति । इदमसत् ।