विशिष्टाद्वैतसिद्धिः किञ्च अन्धकारावृते गृहे एको घटोस्तीति वचनश्रवणानन्तरं तद्ग्रहणाय प्रवृत्तयोः हस्तौ प्रसार्य प्रसार्य तदुपलम्भाय यतमानयोईया- रेवस्तमुपलभ्य गृह्णाति, अपरो न | कस्तत्र हेतुः ? क्षीरस्य रात्रौ दधित्व- परिणामः भूम्यन्तर्निहितस्य बंजस्याङ्कुरप्रादुर्भावानुगुणपरिणामञ्च कस्य दृष्टथा सृज्यते ? भवद्गृहस्थस्य वस्तुनः अयेन दृष्टस्य तददृष्टिसृष्टि- त्वेन तत्स्वामिक्त्वापत्तेः कः परिहार: ? प्रथमः ● यत्तु नेह नानांस्त किञ्चनेत्यादिश्रुतिभिः प्रपञ्चस्य मिथ्यात्वेऽववृत रज्जुसर्पादिवन प्रतिभासमात्रशरीरत्वमेव प्रतिमासकालातिरिक्तकालसत्वं बाधकम् । अतो भिन्नकालागं प्रत्यभिज्ञा भ्रान्तिरिति कृत्वा प्रातदृ ष्ट्रस्य घटस्य सायं जायमाना प्रत्यभिज्ञा भ्रान्तिरित्युच्यते, तांद्वपरीतं द्रष्ट-- व्यम् । दृढप्रत्याभज्ञावलेन वाक्यन्यायैश्च नेह नानेति प्रतिः प्रपञ्चम्य मिथ्यात्वं न बोधयनःत्वचधारणात् । 'एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि ( सर्व एत आत्मानो ) व्युच्च . रन्ति' इति श्रुटिसृष्टौ प्रमाणम् । अस्या ह्ययमर्थः। सर्वे प्रारणाः जीवा:. लोकाः, ज्ञानानि, देवाः, इन्द्रियाणि सर्वाणि भूतानि, देवमनुष्या- दिरूपाणि अमान्य एषोऽन्त आकाशः' इति पूर्व निर्दिष्टान् आत्मनः परमात्मनः व्युच्चरन्ति सुपुष्यवस्थां विहायोद्गच्छन्तीति । 'कै तद्।ऽभूत् , कुत एतदागात् इति द्वाँ प्रश्नौ पूर्व पृष्ठों, तत्र आद्यस्योत्तरं ‘एवमेवैष एतच्छेने’ इत्यन्तेनोक्तम् । अथ द्वितीयस्योत्तराभिधानप्रकरणे इमाम्नायते । जीवस्थ सुषुप्रो परमात्मनि शयनम् । तत एवागत प्रबुध्यमान इति प्रश्नयोः समाधने उक्ते । अत्र दृष्टिसृष्टिकथायाः कोऽवकाशः। यत्तु ‘न तु तद् द्वितीयमस्ति ततोऽन्यद्वभक्तं यत्नश्येत्' इत्यादिना सुषुप्रौ सकलका ये प्रपञ्चलयनवणात् पुनः प्राणादिसृष्टिरुच्यत इति तन्न | अस्याः श्रुतेः स्वातिरिक्तज्ञ याभावेन स्वातिरित्तज्ञ यविषयक- ज्ञानसामान्यवरहप्रतिपादनपरत्वात् । दृष्टेरविनाशित्वेन तदानीमपि ५
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२१५
दिखावट