सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः दृष्टिसृष्टिः ६६ वस्तु सृज्यते पूर्वदृष्टां घटः कालान्तरे कथं घट एव दृश्यते न गर्दभः । दृश्यत एव हि स्वप्ने एकमेव वस्तु अन्यथा अन्यथा परिणममानम् । उक्तं च मायामात्रसूत्रमाप्ये – “रथोऽयमिति हि कदाचित् स्वप्ने निर्धा- रितः क्षणेन मनुष्यः सम्पद्यते । मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः" इति । एकम्मिन् वस्तुनि भ्रमश्च बहुधा | यथा रज्जौ सर्पः भूदलन- मम्बुधारेति । एतेन पुरुपान्तरप्रतीतेन सह एककालावच्छेदेनापि घटादौ प्रत्यभिज्ञानं भ्रम एव । प्रतिभासस्य भेदात् । यथा एकस्यामेव मन्दान्धकारवर्तिन्यां दशानां युगपत् सर्पभ्रमेण पलायमानानां परस्पर- संवादेन एक एत्र सर्पः सर्वैरनुभूगत इति प्रत्यभिज्ञा भ्रमः | अन्यभ्रम- सिद्धस्यान्येन ज्ञातुमशक्यत्वात्" इति यदुक्तं तन्निरस्तम् । तथा हि | चहुभ्रमस्थले सर्वे एकधैव भ्रमन्तीति नियमो नास्ति । रजौ हि कदाचित् कश्चित् सर्प इति भ्राम्यति । अन्यः भूभेद इति । अपरः अम्बुधारेति । नैवं प्रमाले अनियमो भवति । अभ्रान्ताः सर्वेऽपि घटं घटमेव पश्यन्त, न तु यः कश्चिदपि अघटम् | दृष्टिसृष्टौ अयं नियमो नोप- पद्यते। यद्यप्येकः रज्जुं रज्जुत्वेनेव घटं घटत्वेन पश्येन तथाप्यन्ये रज्जु सर्पत्वादिनेव घटं घटभिन्न किञ्चिद्वस्तुत्वेनापि पश्येयुः, यदि रज्जुसर्पवन् दृष्टिसृष्टिमात्रात्मा घटः स्यात् । दृष्टान्ते दशपुरुषभ्रमसिद्धा दशसर्पाः सन्ति । तेषामैक्यं भ्रान्तिसिद्धमित्येतद्नुपपन्नम् । भ्रमात्मकप्रतीति- मात्रस्य तत्र सत्त्वात् | बहिः सर्पात्मऋविषयसिद्धौ मानाभावात् । ज्ञानस्य हि सवत्र सविषयत्वं दृष्टम् । न तु क्वचिदपि स्वविषयोलादकत्वम् । अतः सोऽयं घट इति कालान्तरे यत्प्रत्यभिज्ञानं, दशानां युगपद्दर्शने च संवादेन यदैक्यज्ञानं तदुभयं प्रतीतिनिरपेक्षस्वकार सिद्धर्बाहिर्वस्तुसत्तां बोधयत् दृष्टिसृष्टिवादस्य दुष्टदृष्टिमूलतां स्पष्टदृष्टियांग्यामापाद- यतीति ज्ञेयम् । प्रवसन् दृष्टिसृष्टिवादी स्वगृहजनान् असतो मन्य- मानः किं तदुचितं सर्वमाचरतीति च विमृश्यम् |