विशिष्टाद्वैतसिद्धिः प्रथमः ५८
, 3 २७. उभयसिद्धमलक्षणं मिथ्यात्वासमानाधिकरणधर्मानधिकरणम् शुक्तिरूप्यवदित्यत्र बाधितत्वमुपाधिः । उभयसिद्धं अस द्विलक्षणं मिथ्यात्वासमानाधिकरणधर्मानधिकरणत्वाभाववत् आधार- त्वान् ब्रह्मवदिति प्रत्यनुमानं च | न च दृष्टान्तस्य हेतुविकलता | काल्पनिकस्याधारत्वस्य सत्वात् । अकाल्पनिकस्य भवन्मते कुत्राप्य- भावात् । १८ प्रतियोग्यवच्छिन्नो देशः अत्यन्ताभावाश्रयः आधारवा कालवन् इत्यत्र सर्वाधारत्वमुपाधिः । प्रतियोग्यवच्छिन्नो देशः अत्यन्ताभावाश्रयो न, प्रतियोग्यधिकरणत्वात् परमार्थसत्त्वाश्रयवत्, इति प्रत्यनुमानं च | १६. आत्मत्वावच्छिन्नं परमार्थसत्त्वाधिकरण - प्रतियोगिक भेदत्वावच्छिन्नरहितम, परमार्थसत्वात्, परमार्थसत्त्वाव- च्छिन्नवत् इत्यत्र हेतुरप्रयोजकः | आकशत्वावच्छिनं गुणाश्रयत्वाधि- करणप्रतियोगिकभेदत्वावच्छिन्नरहितम् गुणाश्रयत्वान् गुणाश्रयत्वाव- च्छिन्नवत् इत्येतदाभाससाम्यं च | २०. "शुक्तिरूप्यं मिथ्यात्वे प्रपञ्चान्न भियते, व्यवहारविषयत्वात् ब्रह्मवत् | साध्यसत्त्वमत्र त्रेधा- स्वस्यामिथ्यात्वेन उभयोमिथ्यात्वेन उभयोरमिथ्यात्वेन वा । तत्रान्तिम- पक्षस्यासम्भवात् पक्षे साध्यसिद्धिपर्यवसानं मध्यमपक्षेण दृष्टान्ते तु प्रथमपक्षेणेति विवेकः ।" इत्यत्र हेतुर्विवेचनीयः | यदि व्यवहार- विषयत्वं नाम हानांपादानविपयत्वं न तत् पक्षे दृष्टान्ते वा वर्तते । यद्यभिधेयत्वं तन्न दृष्टान्ते । ब्रह्मणोऽनभिधेयत्वाङ्गीकारात् | व्याख्याता तु व्यवहारेत्य विवक्षितमित्याह । तदपि विषयत्वं नाम पक्षदृष्टान्त- साधारणं किमिति न जानामिः । किञ्च दृष्टान्ते ब्रह्मणि मिथ्यात्वहे प्रपञ्चभेदवत्त्वाभावः तस्यामिथ्यात्वयुक्तः | पक्षे तु उभयमिथ्यात्वत्र- युक्तः । ताविमौ भिन्नरूपौ द्वौ धर्मो श्लेषभङ्गया एकधा उपादाय मिथ्या- भूतस्य पक्षस्य परमार्थसद्ब्रह्म दृष्टान्तीकुर्वन् उक्तिर्वैचित्रीकौशलं दर्श- यति । काव्येषु किलेयं शोभते न तत्त्वाभिनिवेश- गहनगम्भीरेषु शास्त्र - ,