सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः विशेषानुमानानि पर नार्थ सत्वावचिन्न प्रतियोगिकाभाववत्, इत्यत्र यावद्व्यक्ति प्रतियोगित्व- मुपाधिः । परमार्थसप्रतियोगिको भेदः सजातीयसन्निष्ठः । सत्प्रतियो गिक भेदत्वात् घटादिसद्भवदिति प्रतिसाधनम् । १२. भेदत्वावच्छिन्नं सद्विलक्षण प्रतियोग्यधिकरणान्यतरवत् अभावत्वात् शुक्तिरूप्यप्रतियो गिकाभाववत् , इत्यत्र वाधितप्रतियोगिकत्वमुपाधिः । ब्रह्मज्ञानेतराबाध्य- प्रतियोग्यधिकरणकभेदसामान्यसत्त्वेन सजातीयप्रतियोग्यधिकरणकम्, अवाचित प्रतियोग्यधिकरणकाभावत्वात् घटवृत्तिपटत्वाभाववदति

प्रतिसाधनम् । १३. परमार्थसन्निष्ठो भेदो न परमार्थसत्प्रतियोगिकः परमार्थसदधिकरणत्वान्, शुक्तिरूण्यप्रतियोगिक भेदवत् इत्यत्रापि बाधि- तप्रतियोगिकत्वमुपाधिः । घटनिष्ठो भेदो न घटप्रतियोगिकः घटाधि- करगत्वान् शुक्तिरूप्यप्रतियोगिक भेदवदित्याभासतुल्यता च । १४. मिथ्यात्वं ब्रह्मानुयोगवानिरिक्तत्वव्यापकम्, सकलमिथ्यावृत्तित्वात् मिथ्यात्वसमानाधिकरणात्वन्ताभाचाप्रतियोगित्वाद्वा दृश्यत्ववत्, इत्यत्र हेतोरप्रयोजकत्वम् | मिथ्यात्वं उक्तोमयातिरिक्त व्यापकं न भवति, वाधि- तमात्रवृत्तित्वात् शुक्तिरूप्यत्ववादति सप्रतिसाधनत्वं च | यथा कश्चिद् त्र्यान्-भ्रमत्वं अज्ञानातिरिक्तत्वव्यापकम् सकल भ्रमवृत्तित्वात् भ्रमत्व- समानाधिकरणात्यन्ताभावाप्रतियोगित्वाद्वा ज्ञानत्ववत् इति द्रव्यत्वं तुच्छातिरिक्तत्वव्यापकम्, सकलद्रव्यवृत्तित्वात् द्रव्यत्व समानाधिकरणा- गित्वाद्वा अभिधेयत्ववत् इति च, ताहगिदं भवती- त्याभासतुल्यता च । १५ दृश्यत्वं परमार्थसदवृत्ति अभिधेयमात्रवृत्ति - वात् शुक्तिरूप्यत्ववत्, इत्यत्र बाधितवृत्तित्वमुपाधिः | दृश्चत्वं पर- मार्थसद्वृत्ति प्रातिभासिकेतरवृत्तित्वात् ब्रह्मत्ववत् इति प्रत्यनुमानं च | दृश्यत्वं परमार्थसद्भिन्नत्वव्याप्यम्, दृश्येतरावृत्तिधर्मत्वात् प्रातिभासि- कत्ववत्, इत्यत्र पूर्वव देवोपाधिर्वाच्च: । दृश्यत्वं परमार्थसद्भिन्नत्व - व्याप्यं न, प्रातिभासिकेतरवृत्तित्वात् ब्रह्मत्ववत्, इति प्रतिसाधनं च |

. ५ ५ 9 ५७